SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तुके. ॥ २३ ॥ Jain Education In संजमजोगा एत्थं रयहरणा तेसि कारणं जेणं । रयहरणं उवयारो भण्णइ तेणं रओ कम्मं ॥ १३३॥ 'संयमयोगाः ' प्रत्युपेक्षितप्रमृष्टभूभागस्थानादिव्यापाराः 'अत्र' अधिकारे रजोहरणाः, वध्यमानकर्महरा इत्यर्थः, 'तेषां' संयमयोगानां कारणं येन कारणेन रजोहरणमित्युपचारः तेन हेतुनेति, रजः स्वरूपमाह - भण्यते रजः कर्म बध्यमानकमिति गाथार्थः ॥ ३३ ॥ केई भांति मूढा संजमजोगाण कारणं नेवं । रयहरणंति पमज्जणमाईहुवघायभावाओ ॥ १३४ ॥ केचन भन्ति मूढाः - दिगम्बरविशेषाः [ काष्ठाः ] 'संयमयोगानाम्' उक्तलक्षणानां कारणं नैव वक्ष्यमाणेन प्रका रेण रजोहरणमिति, यथा न कारणं तथाऽऽह - ' प्रमार्जनादिभिः' प्रमार्जनेन संसर्जनेन च उपघातभावात् प्राणिनामिति गाथार्थः ॥ ३४ ॥ एतदेवाह - मूइंगलिआईणं विणाससंताणभोग विरहाई । रयदरिथजणसं सजणाइणा होइ उवधाओ ॥ १३५ ॥ I प्रमार्जने सति 'मूइंगलिकादीनां' पिपीलिकामत्कोटप्रभृतीनां विनाशसन्तानभोग्यविरहादयो भवन्तीति वाक्यशेषः, रजोहरणसंस्पर्शनादल्पकायानां विनाशः, एवं सन्तानः- प्रबन्धगमनं भोग्यं - सिक्थादि एतद्विरहस्तु भवत्येवेत्युपघातः, तथा 'रजोदरी स्थगन संसर्जनादिना भवत्युपघात' इति च सम्भवति च प्रमार्जने सति रजसा दरिस्थगनं तत्संसर्जने च सत्त्वोपघात इति गाथार्थः ॥ ३५ ॥ एष पूर्वपक्ष:, अत्रोत्तरमाह - For Private & Personal Use Only रजोहरण पूर्वपक्ष:गा. १३३-३५ ॥ २३ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy