________________
'ततः' तदनन्तरं वन्दनं समं-देवाद्यभिमुखमेव दत्त्वा शिक्षको भणति, किमिति तदाह-इच्छाकारेण प्रवाजयत,
| रजोहरणअस्मानिति गम्यते एवेति गाथार्थः ॥ २९ ॥
हास्य लिंगत्वं
गा. इच्छामोत्ति भणित्ता उठेउं कट्ठिऊण मंगलयं । अप्पेइ रओहरणं जिणपन्नत्तं गुरू लिंगं ॥ १३०॥
१३०-३२ इच्छाम इति भणित्वा विशुद्धवचसा उत्थातुम् ऊर्द्धस्थानेन 'आकृष्य मङ्गलकं' पठित्वा पञ्चनमस्कारम् अर्पयति रजोहरणं जिनप्रज्ञप्तं गुरुर्लिङ्गमिति गाथार्थः ॥ ३० ॥ लिङ्गदान एव विधिमाहपुवाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा । जाए जिणादओवा दिसाएँ जिणचेइआई वा ॥१३१॥ | पूर्वाभिमुख उत्तराभिमुखो वा दद्याद् गुरुः अथवा प्रतीच्छेत् शिष्यः, यस्यां जिनादयो वा दिशि, जिनाः-मनःपर्याय ज्ञानिनः अवधिसम्पन्नाश्चतुर्दशपूर्वधरा नवपूर्वधराश्च, जिनचैत्यानि वा यस्यां दिशि आसन्नानि, तदभिमुखो दद्यात् अथवा प्रतीच्छेदिति गाथार्थः ॥ ३१ ॥ रजोहरणं लिङ्गमुक्तम् , साम्प्रतं तच्छब्दार्थमाहहरइ रयं जीवाणं वज्झं अब्भंतरं च जं तेणं । रयहरणंति पवुच्चइ कारणकज्जोवयाराओ ॥१३२॥
'हरति' अपनयति रजो जीवानां वाह्य-पृथिवीरजःप्रभृति अभ्यन्तरं च-बध्यमानकर्मरूपं यद्-यस्मात् तेन कारणेन रजोहरणमिति प्रोच्यते, रजो हरतीति रजोहरणम् , अभ्यन्तररजोहरण(णाभाव)माशङ्क्याह-कारणे कार्योपचारात्, संयमयोगो रजोहरस्तत्कारणं चेदमिति गाथार्थः ॥ ३२॥ एतदेव प्रकटयति
Jain Education
anal
For Private & Personal Use Only
www.jainelibrary.org