SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पञ्चव. ४ Jain Education 'चैत्यकुलगणसङ्गेषु' 'चैत्यानि - अर्हत्प्रतिमाः, कुलं - चान्द्रादि परस्परसापेक्षानेककुलसमुदायो गणः बालिका ( चेल्लक )पर्यन्तः सङ्घः, तथा 'आचार्याणां' प्रसिद्ध तत्त्वानां 'प्रवचनश्रुतयोश्च' प्रवचनम् - अर्थः श्रुतं तु सूत्रमेव, एतेषु सर्वेष्वपि 'तेन' साधुना कृतं यत्कर्त्तव्यं, केन ? इत्याह- ' तपःसंयमयोरुद्यच्छता' तपसि संयमे चोद्यमं कुर्वतेति गाथार्थः ॥ ३ ॥ एत्थ य विवेगचागा पवत्तई जेण ता तओ पवरो । तस्सेव फलं एसो जो सम्मं बज्झचाउत्ति ॥ १०४ ॥ 'अत्र च ' तपआदौ अविवेकत्यागात् प्रवर्त्तते येन कारणेन तस्मादसौ - अविवेक त्यागः प्रवरः, 'तस्यैव' अविवेकत्यागस्य फलमेष यः सम्यग्वाह्यत्याग इति गाथार्थः ॥ ४ ॥ यतश्चैवम् ता थेवमिअं कज्जं सयणाइजुओ नवत्ति सइ तम्मि। एत्तो चेव य दोसा ण हुंति सेसा धुवं तस्स ॥१०५॥ 'तत्' तस्मात् स्तोकमिदं कार्यं स्वजनादियुक्तो नवेति सति 'तस्मिन्' अविवेकत्यागे, 'अत एव च' अविवेकत्यागाद् दोषा न भवन्ति शेषा ध्रुवं तस्य अगम्भीरमदादयः इति गाथार्थः ॥ ५ ॥ यद्येवं तर्हि सूत्र उक्तम् - " जे य कन्ते पिए" इत्यादौ यत् " से हु चाइत्ति वुच्चति"त्ति तत्कथं नीयते ?, इति चेतसि निधायाह सुत्तं पुण ववहारे साहीणे वाणत्ता) तवाइभावेणं । हू अविसद्दत्थम्मी अन्नोऽवि तओ हवइ चाई ॥ १०६ ॥ सूत्रं पुनः "सेहु चाइती” त्यादि व्यवहारनयविषयं, व्यवहारतस्तावदेवं स्वाधीनत्वात्, 'तपआदिभावेन' तपसा - अनिदानेन आदिशब्दात् कोटित्रयोद्यमपरित्यागेन च, हुः सुत्रोक्तः अपिशब्दार्थे, सोऽप्यन्योऽपि ततो भवति त्यागीति गाथार्थः ॥ ६॥ pnal For Private & Personal Use Only सेहुत्तिसू त्रस्य व्यव हारपरता गा. १०४-६ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy