________________
श्रीपञ्चवस्तुके.
11 26 11
Jain Education Intert
'प्रकृत्या' स्वभावेन 'सावद्यं' सपापं 'सद्' भवत् 'यत्' यस्मात् 'सर्वथा' सर्वैः प्रकारैः 'विरुद्धमेव' दुष्टमेव 'ध्वनि, भेदेऽपि शब्दभेदेऽपि सति किंवदित्याह - मधुरकशीतलिकादिवल्लोक इति, नहि विषं मधुरकमित्युक्तं न व्यापादयतिस्फोटिका वा शीतलिकेत्युक्ता न दुनोतीति गाथार्थः ॥ १०० ॥ अत्राह—
ता कीस अणुमओ सो उवएसाइंमि कूवनाएणं । गिहिजोगोउ जइस्स उ साविक्खस्सा पट्टाए ॥१०१॥
यद्येवं तत्किमित्यनुमतोऽसौ - आरम्भः क्वेत्याह- 'उपदेशादा' विति उपदेशे श्रावकाणाम्, आदिशब्दात् कचि - दात्मनाऽपि लूताद्यपनयनमायतन इति ?, अत्रोत्तरमाह - ' कूपज्ञातेन' प्रवचनप्रसिद्ध कूपोदाहरणेन 'गृहियोग्यस्तु' श्रावकयोग्यस्तु, श्रावकयोग्य एवेति मध्यस्थस्य शास्त्रार्थकथने नानुमतिः 'यतेस्तु' प्रत्रजितस्य 'सापेक्षस्य' गच्छवासिनः 'परार्थ' सत्त्वार्ह गुणमाश्रित्य निरीहस्य यतनया विहितानुष्ठानत्वात् नानुमतिरिति गाथार्थः ॥ १०१ ॥ तथा चाहअण्णाभावे जयणाऍ मग्गणासो हविज मा तेणं । पुव्वकयाययणाइसु ईसिं गुणसंभवे इहरा ॥ १०२ ॥
‘अन्याभावे' श्रावकाद्यभावे 'यतनया' आगमोक्तया क्रियया, 'मार्गनाशः' तीर्थनाशो मा भूदित्यर्थः तेन कारणेन 'पूर्वकृतायतनादिषु' महति सन्निवेशे सच्चरितलोकाकुले अर्धपतितायतनादिषु ईषद्गुणसम्भवे च कस्यचित्प्रतिपत्त्यादिस्तोकगुणसम्भवे च सति एतदुक्तं, 'इतरथा' अन्यथा ॥ २ ॥
चेइअकुलगुणसंधे आयरिआणं च पवयणसुए अ । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेण ॥१०३॥
For Private & Personal Use Only
आयतन
तद्यतने
गा. १०११०३
॥ १८ ॥
www.jainelibrary.org