________________
Jain Education Inter
दीसंति अ केइ इहं सइ तंमी बज्झचायजुत्ताऽवि । तुच्छपवित्ती अफलं दुहावि जीवं करे माणा ॥९७॥ दृश्यन्ते च केचिदत्र - लोके सति तस्मिन् - अविवेके 'बाह्यत्यागयुक्ता अपि' स्वजनादित्यागसमन्विता अपि 'तुच्छ प्रवृत्त्या' अविवेकात् तथाविधारम्भाद्यसारप्रवृत्त्या अफलं 'द्विधापि' इहलोकपरलोकापेक्षया जीवितं कुर्वन्तः सन्तः इति गाथार्थः ॥ ९७ ॥ तथा च
चऊण घरावासं आरंभपरिग्गहेसु वहंति । जं सन्नाभेएणं एअं अविवेगसामत्थं ॥ ९८ ॥ त्यक्त्वाऽपि गृहवासं प्रव्रज्याङ्गीकरणेनारम्भपरिग्रहयोः उक्तलक्षणयोः वर्त्तन्ते यत् - यस्मात् 'संज्ञाभेदेन' देवाद्यर्थोऽयमित्येवंशब्दभेदेन, 'एतद्' इत्थंभूतम् 'अविवेकसामर्थ्यम्' अज्ञानशक्तिः इति गाथार्थः ॥ ९८ ॥ एतदेव दृष्टान्तद्वारेणाह
मंसनिवित्तिं काउं सेवइ दंतिक्कयंति धणिभेआ । इअ चइऊणारंभं परववएसा कुणइ बालो ॥९९॥
मांसनिवृत्तिं कृत्वा कश्चिदविवेकात् सेवते दन्तिक्ककमिति ध्वनिभेदात्-शब्दभेदात् 'इय' एवं त्यक्त्वाऽऽरम्भम् " एकग्रहणे तज्जातीयग्रहणमिति" न्यायात् परिग्रहं च 'परव्यपदेशाद्' देवादिव्यपदेशेन करोति 'बालः' अज्ञः इति गाथार्थः ॥ ९९ ॥ किमित्येतदेवमित्यत आह
पयईए सावज्जं संतं जं सव्वहा विरुद्धं तु । धणिभेअंमिवि महुरगसीअलिगाइव्व लोगम्मि ॥१००॥
For Private & Personal Use Only
संज्ञाभेदेऽविवेकः
गा. ९७० १००
www.jainelibrary.org