________________
श्रीपञ्च
वस्तुके.
प्रदानेन, तथा भोगाभावात् कारणान्न त्यागिनश्च तेऽगम्भीराः, त्यागिनश्च प्रव्रज्योक्ता “से हु चाइत्ति वुच्चती"त्यादि- अविवेकवचनात् इति गाथार्थः॥ ९३ ॥ एष पूर्वपक्षः, अत्रोत्तरमाह
त्यागे दीक्षा एयपि न जुत्तिखमं विण्णेअं मुद्धविम्हयकरं तु । अविवेगपरिचाया चाई जं निच्छयनयस्स ॥९॥ गा.९४-९६
एतदपि न युक्तिक्षमं विज्ञेयं-न युक्तिसमर्थ ज्ञातव्यं यदुक्तं पूर्वपक्षवादिना, 'मुग्धविस्मयकरं तु' मन्दमतिचेतोहारि त्वेतत्, कथमित्याह-'अविवेकपरित्यागाद्' भावतोऽज्ञानपरित्यागेन त्यागी यद्-यस्मात् निश्चयनयस्याभिप्रेत इति गाथार्थः॥ ९४ ॥ किमित्येतदेवमत आह
संसारहेउभूओ पवत्तगो एस पावपक्खंमि । एअंमि अपरिचत्ते किं कीरइ बज्झचाएणं? ॥९५॥ | __ 'संसारहेतुभूतः' संसारकारणभूतः प्रवर्तक एषः-अविवेकः ‘पापपक्षे' अकुशलव्यापारे, यतश्चैवमत 'एतस्मिन्' अविवेके । अपरित्यक्ते किं क्रियते बाह्यत्यागेन-स्वजनादित्यागेन? इति गाथार्थः ॥ ९५ ॥ किञ्चपालेइ साहुकिरिअंसो सम्मं तंमि चेव चत्तंमि।तब्भावमि अविहलो इअरस्स कओऽविचाओत्ति ॥९॥
ठयति 'साधुक्रियां' यतिसामाचारी 'स' प्रवजितः 'सम्यम्' अविपरीतेन मार्गेण तस्मिन्नेव-अविवेके त्यक्त इति.. 21॥ 'तद्भावे च' अविवेकसत्तायां च सत्यां विफलः परलोकमङ्गीकृत्य 'इतरस्य' स्वजनादेः कृतोऽपि त्यागः, अविवेकात् इति गाथार्थः॥ ९६ ॥ एतदेव दर्शयति
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org