________________
Jain Education In
विशुद्धचित्तस्य' रागादिरहितस्य मरण इवेति च सिद्धः परस्य दृष्टान्तः, अन्यथा तत्रापि स्वजनशोकादिभ्यः पापप्रसङ्गः इति गाथार्थः ॥ ९० ॥
अण्णे भणति धन्ना सयणाइजुआ उ होंति जोग्गत्ति । संतस्स परिच्चागा जम्हा ते चाइणो हुंति ॥९१॥ अन्ये वादिनो 'भणन्ति' अभिदधति - 'धन्याः' पुण्यभाजः 'स्वजनादियुक्ता एव' स्वजनहिरण्यादिसमन्विता एव भवन्ति योग्याः प्रव्रज्याया इति गम्यते, उपपत्तिमाह- 'सतो' विद्यमानस्य परित्यागात् स्वजनादेः, यस्मात् कारणात्तेस्वजनादियुक्ताः त्यागिनो भवन्ति, त्यागिनां च प्रत्रज्येष्यते इति गाथार्थः ॥ ९१ ॥
| जे पुण तप्परिहीणा जाया दिव्वाओं चैव भिक्खागा। तह तुच्छभावओ चिअ कहण्णु ते होंति गंभीरा १९२
ये पुनस्तत्परिहीना जाता 'दैवादेव' कर्म्मपरिणामादेव 'भिक्षाका ' भिक्षाभोजनाः, ततश्च 'तथा' तेन प्रकारेण 'तुच्छभावत्वादेव' असारचित्तत्वादेव कथं नु ते भवन्ति गम्भीराः १, नैव ते भवन्ति गम्भीराः - नैव ते भवन्त्युदार चित्ताः, अनुदारचित्ताश्चायोग्या इति गाथार्थः ॥ ९२ ॥ किञ्च
मज्जंति अ ते पायं अहिअयरं पाविऊण पज्जायं । लोगंमि अ उवघाओ भोगाभावा ण चाई या ॥ ९३ ॥
'माद्यन्ति च ' मदं गच्छन्ति च 'ते' अगम्भीराः 'प्रायो' बाहुल्येन 'अधिकतरम्' इहलोक एव शोभनतरं 'प्राप्य पर्यायम्' आसाद्यावस्थाविशेषम्, अधिकश्चेहलोकेऽपि तथाविधगृहस्थ पर्यायात् प्रव्रज्यापर्यायः, लोके चोपघातः क्षुद्रप्रत्रज्या -
For Private & Personal Use Only
स्वजनर हितस्यापि
दीक्षा गा. ९१-९३
www.jainelibrary.org