________________
Jain Education Inter
आह-यदि तावत् तस्य - स्वजनस्य त्यागो गुरुतर इत्यत्राह - 'कोऽत्र विशेष हेतु 'रिति, यतोऽयमेव इति गाथार्थः ॥ ८३ ॥ अह तस्सेव उ पीडा किं णो अण्णेसि पालणे तस्स ? । अह ते पराइ सोऽविहु सतत्तचिंताइ एमेव ॥ ८४ ॥ ‘अथ’ इत्यथैवं मन्यसे ‘तस्यैव तु' स्वजनस्य पीडा विशेषहेतुरिति, अत्रोत्तरमाह- किं नो अन्येषां सत्त्वानां पालने तस्य पीडा ?, पीडैवेति भावः । अथ ते परादय इति- अपरे आदिशब्दादे केन्द्रियादयश्च, अत्रोत्तरम् -' असावपि' स्वजनः 'स्वतस्त्वचिन्तायां' परमार्थचिन्तायां एवमेव परादिरेव, अनित्यत्वात् संयोगस्य इति गाथार्थः ॥ ८४ ॥ पक्षान्तरमाह - | सिअ तेण कथं कम्मं एसो नो पालगोत्ति किं ण भवे ? ता नूणमण्णपालगजोग्गं चिअ तं कथं तेण ॥ ८५ ॥
'स्याद्' इत्यथैवं मन्यसे 'तेन' स्वजनेन कृतं कर्म-अदृष्टं किंफलमित्याह – 'एप' प्रवित्रजिषुः 'नः' अस्माकं पालक इत्येवंफलम्, अत्रोत्तरं - किं न भवति, कर्म्मणः स्वफलदानात् न च भवति, तन्नूनम् - अवश्यम् अन्यः पालक इत्ये तदुचितमेव 'तत्' कर्म कृतं 'तेन' स्वजनेन इति गाथार्थः ॥ ८५ ॥ किञ्च ----
बहुपीडाए अ कहं वसुहं पंडिआणमिति ? । जलकट्टाइगयाण य बहूण घाओ तदच्चाए ॥ ८६ ॥ 'बहुपीडायां च ' अनेकजलाद्युपमर्द्दने च कथं 'स्तोकसुखं' स्तोकानां स्वजनानां स्तोकं वा स्वल्पकालभावेन सुखं स्तोकसुखं पण्डिताना मिष्टमिति ?, वहुपीडामाह - जलकाष्ठादिगतानां च प्राणिनामिति गम्यते बहूनां घातः तदत्यागे - स्वजनात्यागे, आरम्भमन्तरेण तत्परिपालनाऽभावात् इति गाथार्थः ॥ ८६ ॥
For Private & Personal Use Only
स्वजनयुतस्यापि
दीक्षा गा. ८४-८६
www.jainelibrary.org