________________
+
4
श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत
आगमबहुमान:
मरणे
॥ २४॥
बाह्यो, न भवति 'धर्मे' सकलपुरुषार्थहेतावधिकारी, सम्यगविवेकाभावादिति गाथार्थः ॥९॥ अत्रैव प्रक्रमे किमित्याहतीतबहुश्रुतज्ञातम् , अतीता अप्याचार्या बहुश्रुता एव, तैः कस्मादिदं वन्दनं कायोत्सर्गादि नानुष्ठितमित्येवंभूतं, किमि-18 त्याह-तक्रियादर्शनात्'तीतबहुश्रुतसम्बन्धिक्रियादर्शनात् कारणात् कथं प्रमाण?, नैव प्रमाणं,न ज्ञायते ते कथं वन्दनादिक्रियां कृतवन्त इति, न चेदानींतनसाधुमात्रगतक्रियानुसारतः तत्तथातावगम इत्याह-व्यवच्छिद्यमाना चेयं-क्रिया 'शुद्धा' आगमानुसारिणी 'इह लोके साम्प्रतमपि दृश्यत एव, कालदोषादिति गाथार्थः ॥ १०॥ उपसंहरन्नाह-यस्मादेवमागमपरतन्त्रैः-सिद्धान्तायत्तैः तस्मान्नित्यमपि-सर्वकालमपि सिद्धिकांक्षिभिर्भव्यसत्त्वैः सर्वमनुष्ठानं खलु वन्दनादि कर्त्तव्यमप्रमत्तः-प्रमादरहितैरिति गाथार्थः ॥ ११॥ एवं क्रियमाणे फलमाहएवं करितेहि इमं सत्तणुरूवं अणुंपि किरियाए । सद्धाणुमोअणाहिं सेसंपि कयंति दट्ठवं ॥ १७१२ ॥ | 'एवम्' उक्तेन प्रकारेण कुर्वद्भिरिदम्-अनुष्ठानं वन्दनादि 'शत्यनुरूपं यथाशक्ति 'अण्वपि' स्तोकमपि 'क्रियया' प्रतिपत्तिद्वारेण, 'श्रद्धानुमतिभ्यां श्रद्धया अनुमत्या च परिणतया शेषमप्यशक्यं विशिष्टाप्रमादर्ज ध्यानादि 'कृत'मिति कृतमेव द्रष्टव्यं, भावप्रवृत्तेरिति गाथार्थः॥ १२॥ प्रकरणोद्धारे प्रयोजनमाहइअ पंचवत्थुगमिणं उद्धरिअं रुद्दसुअसमुद्दाओ। आयाणुसरणत्थं भवविरहं इच्छमाणेणं ॥ १७१३ ॥ 'इय' एवमुक्तेन प्रकारेण पञ्चवस्तुकमिदमुक्तलक्षणमुद्धृतं-पृथगवस्थापितं रुद्रश्रुतसमुद्राद्-विस्तीर्णात् श्रुतोदधेः, किम
+CCISCAR-
MAGAC
॥२४
॥
Jain Education Inte
For Private & Personal Use Only
Shilioww.jainelibrary.org