SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २३५ ॥ Jain Education Inter ॥ ६७ ॥ एवं निश्चयन येनैतदुक्तं, किन्त्वसङ्ख्येयानि संयमस्थानानि तारतम्यभेदेन येन 'चरणेऽपि' चारित्रेऽपि भणितान्यागमे 'जातिभेदात् ' तज्जातिभेदेन तेन कारणेन न दोष इह कश्चित् कन्दर्पादौ तथाविधसंयमस्थानभावादिति गाथार्थः ॥ ६८ ॥ प्रकृतयोजनामाह - एतासां भावनानां विशेषेण तत्त्यागो भवति तेन कर्त्तव्यो, विवक्षितानशनिना, पूर्वभावितानामपि सतीनां पश्चात्तापादियोगेन भावसारेणेति गाथार्थः ॥ ६९ ॥ कृतमत्र प्रक्रमे प्रसङ्गेन !, प्रकृतं वक्ष्यामि, किंभूतम् ? - सर्वनयविशुद्धं किमित्याह - भक्तपरिज्ञायाः खलु विधानशेषं यत्नोक्तं, 'समासेन' सङ्क्षेपेणेति गाथार्थ ॥ ७०॥ वियडण अब्भुट्टाणं उचिअं संलेहणं च काऊणं । पञ्चक्ख आहारं तिविहं च चउन्विहं वावि ॥ १६७१ ॥ उवत्तइ परिअत्तइ सयमपणेणावि कारवइ किंचि । जत्थ समत्थो नवरं समाहिजणगं अपडिबद्धो ॥१६७२॥ | मेत्तादी सत्ताइसु जिवियणेण तह य अच्चत्थं । भावेइ तिवभावो परमं संवेगमावण्णो ॥ १६७३ ॥ विकटनां दत्त्वा तदम्वभ्युत्थानं संयमे उचितां संलेखनां च संहननादेः कृत्वा प्रत्याख्यात्याहारं गुरुसमीपे त्रिविधं चतुर्विधं वाऽपि यथासमाधानमिति गाथार्थः ॥ ७१ ॥ उद्वर्त्तते परावर्तते स्वयम् - आत्मनैव अन्येनापि कारयति किञ्चिद्र-वैयावृत्त्यकरेण यत्रासमर्थो, नवरं तत्कारयति समाधिजनकं यदात्मनः, अप्रतिबद्धः सन् सर्वत्रेति गाथार्थः ॥ ७२ ॥ 'मैत्र्यादीनि ' मैत्रीप्रमोद कारुण्य माध्यस्थ्यानि 'सत्त्वादिषु' सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु जिनेन्द्रवचनेन हेतुभूतेन तथा चात्यर्थ-नितरां भावयति तीव्रभावः सन् 'परमं संवेगमापन्नः' अतिशयमार्द्रान्तःकरण इति गाथार्थः ॥७३॥ देहसमाधौ यतितव्यमित्याह For Private & Personal Use Only अशुभभा वनात्यागः ॥ २३५ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy