________________
स्वजनयुकस्यापि दीक्षा गा.
७७-८०
'ते एवं' हलादयः 'तेभ्यो' गृहस्थेभ्यः अधिकाः क्रियया प्रधानाः, करणेनैव, यतस्तेभ्यो धान्यादिलाभतस्ते उपजीव्यन्ते गृहस्थैः, अतो 'मुनितेन' ज्ञातेन किम(किं तत्र ?, क्रियाया एव प्राधान्ये सति, ज्ञानादिविरहिताः अथ ते-हलादय इति मन्यसे, एतदाशयाह-'इति' एवं एतेषां ज्ञानादीनां भवति प्राधान्यं, नोपजीव्यत्वस्य इति गाथार्थः ॥ ७७॥ ततः किमिति चेत् उच्यतेताणि य जईण तम्हा हूंति विसुद्धाणि तेण तेसिं तु । तं जुत्तं आरंभो अ होइ जं पावहेउत्ति ॥७८॥
'तानि च' ज्ञानादीनि 'यतीनां' प्रवजितानां यस्माद् भवन्ति 'विशुद्धानि' निर्मलानि तेन हेतुना 'तेषामेव' यतीनां &ा'तत्' प्राधान्यं युक्तं, आरम्भश्च भवति 'यद्' यस्मात् पापहेतुः इति-अतोऽपि तन्निवृत्तत्वात्तेषामेव प्राधान्यं युक्तम् इति गाथार्थः ॥ ७८॥
अण्णे सयणविरहिआइमीऍ जोग्गत्ति एत्थ मण्णंति । सो पालणीयगो किल तच्चाए होइ पावं तु॥७९॥ | अन्ये वादिनः 'स्वजनविरहिताः' भ्रात्रादिबन्धुवर्जिताः 'अस्याः' प्रव्रज्याया योग्या इति-एवं 'अत्र' लोके मन्यन्ते, कया युक्त्येति तां युक्तिं उपन्यस्यति-'स' स्वजनः 'पालनीयो' रक्षणीयः, किल तत्त्यागे-स्वजनत्यागे भवति पापमेव इति गाथार्थः ॥ ७९ ॥ सोगं अकंदण विलवणं च जं दुखिओ तओ कुणइ। सेवइ जंच अकजं तेण विणा तस्स सोदोसो॥८॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org