________________
श्रीपञ्च
.
॥ १४ ॥
Jain Education Int
अण्णे गिहासमं चिय बिंति पहाणंति मंदबुद्धीया । जं उवजीवंति तयं नियमा सवेऽवि आसमिणो ॥ ७४ ॥ अन्ये वादिनो 'गृहाश्रममेव' गृहस्थत्वमेव ब्रुवते प्रधानमिति - अभिदधति श्लाघ्यतरमिति मन्दबुद्धयः - अल्पमतय इति, उपपत्तिं चाभिदधति - 'यद्' यस्मात् उपजीवन्ति तर्क- गृहस्थं अन्नलाभादिना 'नियमात्' नियमेन सर्वेऽप्याश्रमिणो - लिङ्गिनः इति गाथार्थः ॥ ७४ ॥ अत्रोत्तरमाह
उपजीवणाकयं जइ पाहण्णं तो तओ पहाणयरा । हलकरिसगपुढवाई जं उवजीवंति ते तेऽवि ॥ ७५ ॥
'उपजीवनाकृतं यदि प्राधान्यं' उपजीव्यं प्रधानमुपजीवकस्त्वप्रधानमित्याश्रीयते 'तो' इति ततः तस्मात् 'तत' इति गृहाश्रमात् 'प्रधानतराः' श्लाघ्यतराः हलकर्षकपृथिव्यादयः पदार्था इति, आदिशब्दाज्जलपरिग्रहः, किमित्यत्राह - 'यद्' यस्मात् उपजीवंति तेभ्यो धान्यलाभेन 'तान्' हलादीन् 'तेऽपि' गृहस्था अपि इति गाथार्थः ॥ ७५ ॥
सिअ णो ते उवगारं करेमु एतेसिं धम्मनिरयाणं । एवं मन्नंति तओ कह पाहण्णं हवइ तेसिं? ॥ ७६ ॥ 'स्यात्' इत्याशङ्कायाम्, अथैवं मन्यसे - नो ते हलादय एवं मन्यन्त इति योगः, मन्यन्ते - जानन्ति कथं न मन्यन्त ? इत्याह-उपकारं कुम्मों धान्यप्रदानेन एतेषां धर्म्मनिरतानां गृहस्थानामिति, यतश्चैवं ततः कथं प्राधान्यं भवति तेषां - हलादीनामिति ?, नैव प्राधान्यं, तथा मननाभावात् इति गाथार्थः ॥ ७६ ॥ अत्रोत्तरमाहते चैव तेहिँ अहिआ किरियाए मंनिएण किं तत्थ ? । णाणाविरहिआ अह इअ तेसिं होइ पाहण्णं ॥७७॥
For Private & Personal Use Only
गृहाश्रमप्राधान्य
खण्डनं गा.
७४-७७
॥ १४ ॥
www.jainelibrary.org