________________
SHA
AAAAAAAAAAACAKA
अविसहणा तुरियगई अणाणुवित्ती अ अवि गुरूणंपि । खणमित्तपीइरोसा गिहिवच्छलगा य संचइआ ॥ १६४० ॥ दारं ॥ गृहइ आयसहावं छायइ अ गुणे परस्स संतेऽवि ।
चोरो व सवसंकी गूढायारो हवइ मायी ॥ १६४१ ॥ दारं ॥ 'ज्ञानस्य' श्रुतरूपस्य 'केवलिनां' वीतरागाणां 'धर्माचार्याणां' गुरूणां, सर्वसाधूनां सामान्येन, भाषमाणोऽवर्णम्अश्लाघारूपं, तथा मायी सामान्येन, यः स कैल्विषिकी भावनां-तद्भावाभ्यासरूपां करोतीति गाथार्थः॥ ३६ ॥ ज्ञानावर्णमाह-कायाः-पृथिव्यादयः व्रतानि-प्राणातिपातादिनिवृत्त्यादीनि, तान्येव भूयो भूयः, तथा त एव प्रमादाः-मद्यादयः अप्रमादाश्च-तद्विपक्षभूताः, तत्र तत्र कथ्यन्त इति पुनरुक्तदोषः, तथा मोक्षाधिकारिणां साधूनां 'ज्योतिषयो| निभ्यां' ज्योतिषयोनिप्राभृताभ्यां किं कृत्यं, न किञ्चिद, भवेहतुत्वादिति ज्ञानावर्णवादः, इह कायादय एव यत्नेन परिपालनीया इति तथा तथा तदुपदेश, उपाधिभेदेन मा भूद्विराधनेति, ज्योतिःशास्त्रादि च शिष्यग्रहणपालनफलमित्यदुष्टफलमेव सूक्ष्मधिया भावनीयमिति गाथार्थः॥ ३७॥ केवल्यवर्णमाह-सर्वानपि प्राणिनो न प्रतिबोधयतीति न समवृत्तिः, नवा अविशेषेण ददात्युपदेशम् , अपि तु गम्भीरगम्भीरतरदेशनाभेदेन, तथा परितप्यते न गुरुभ्योऽपि दानादिना, आस्तामन्यस्य, ज्ञातः सन् , एवमतिनिष्ठितार्थ एव, लौकिको गहाशब्द एषः, इति केवल्यवर्णवादः, नह्य
*******
*
*
Jan Education inte
For Private & Personal Use Only
**
w.jainelibrary.org