SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥२३१॥ Jain Education Inte भव्याः कांकटुकप्रायाश्च भव्याः केनचित्प्रतिबोध्यन्ते, उपायाभावादिति सर्वानपि न प्रतिबोधयति, अत एवाविशेषेण न ददात्युपदेशं, गुणगुरुत्वाच्च गुरुभ्यो न परितप्यते, साधु निष्ठितार्थ इति गाथार्थः ॥ ३८ ॥ धर्माचार्यावर्णमाह-जात्यादिभिः सद्भिरसद्भिर्वा 'अवर्णम्' अश्लाघारूपं 'विभाषते' अनेकधा ब्रवीति, वर्त्तते न चाप्यवपाते गुरुसेवावृत्तौ तथा अहितः छिद्रप्रेक्षी गुरोरेव, 'प्रकाशवादी' सर्वसमक्षं तद्दोषवादी, 'अननुलोमः' प्रतिकूल इति धर्माचार्यावर्णवादः, जात्यादयो ह्यकारणमत्र, गुणाः कल्याणकारणं, गुरुपरिभवाभिनिवेशादयस्त्वतिरौद्रा इति गाथार्थः ॥ ३९ ॥ साध्यवर्णमाह- 'अविषहणाः' न सहन्ते कस्यचिद्, अपि तु देशान्तरं यान्ति, अत्वरितगतयो मन्दगामिन इत्यर्थः, 'अननुवर्त्ति नश्च' प्रकृतिनिष्ठुराः, अपि तु गुरूनपि प्रति, आस्तामन्यो जनः, तथा क्षणमात्रप्रीतिशेषाः - तदैव रुष्टाः तदैव तुष्टाः, गृहिवत्सलाश्च स्वभावेन, सञ्चयिनः - सर्वसङ्ग्रहपरा इति साध्ववर्णवादः, इहाविषहणाः परोपतापभयेन, अत्वरितगतय ईर्यादिरक्षार्थम्, अननुवर्त्तिनः असंयमापेक्षया, क्षणमात्रप्रीतिरोषाः अल्पकषायतया, गृहिवत्सला धर्म्मप्रतिपत्तये, सञ्चयवन्त उपकरणाभावे परलोकाभावादिति गाथार्थः ॥ ४० ॥ मायि स्वरूपमाह - 'गृहति' प्रच्छादयात्यात्मनः स्वभावं - गुणाभावरूपमशोभनं छादयति गुणान् 'परस्य' अन्यस्य 'सतोऽपि विद्यमानानपि मायादोषेण, तथा चौर इव सर्वशङ्की स्वचिचदोषेण, गूढाचारः सर्वत्र वस्तुनि भवति मायी जीव इति गाथार्थः ॥४१॥ उक्ता किल्बिषिकी भावना, आभियोगिकीमाहकोउअ भूईकम्मे पसिणा इअरे णिमित्तमाजीवी । रिसायगुरुओ अभिओगं भावणं कुणइ ॥ १६४२ ॥ पडिदारं ॥ For Private & Personal Use Only अभियोगिकीभा. १६४२-८ ॥२३१॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy