________________
Jain Education In
लंदं तु होइ कालो सो पुण उक्कोस मज्झिम जहण्णो । उदउल करो जाविह सुक्कड़ ता होइ उ जहण्णो ॥ उक्कोस पुत्रकोडी मज्झे पुण होंति णेगठाणा उ । एत्थ पुण पंचरत्तं उक्कोसं होअहालंदं ॥ १५३९ ॥
लन्दं तु भवति कालः, समयपरिभाषेयं, स पुनः काल उत्कृष्टो मध्यमो जघन्यः सामयिक एवायं द्रष्टव्यः, उदकार्द्रकरो यावदिह सामान्येन लोके शुष्यति तावद्भवति तु जघन्य इह प्रक्रमे इति गाथार्थः ॥ ३८ ॥ उत्कृष्टः पूर्वकोटी, चरणकालमाश्रित्य, मध्यः पुनर्भवन्त्यनेकानि स्थानानि, वर्षादिभेदेन, अत्र पुनः प्रक्रमे पञ्चरात्रमुत्कृष्टं भवति, तेनोपयोगात्, 'यथालन्द' यथाकालमिति गाथार्थः ॥ ३९ ॥
जम्हा उ पंचरत्तं चरंति तम्हा उ हुंतऽहालंदी | पंचेव होइ गच्छो तेसिं उक्कोसपरिमाणं ॥ १५४० ॥
यस्मात्पञ्चरात्रं चरन्ति वीथ्यां भैक्षनिमित्तं तस्माद् भवन्ति यथालन्दिनः, विवक्षितयथालन्दभावात्, तथा पञ्चैव भवति गच्छः स्वकीयस्तेषामुत्कृष्टपरिमाणमेतदिति गाथार्थः ॥ ४० ॥
जा चैव य जिणकप्पे मेरा सच्चेव लंदिआणंपि । णाणत्तं पुण सुत्ते भिक्खाचरि मासकप्पे अ ॥ १५४१ ॥ यैव च जिनकल्ये मर्यादोक्ता - भावनादिरूपा सैव च यथालन्दिकानामपि प्रायशः, नानात्वं पुनस्तेभ्यः 'सूत्रे' सूत्रविषयं तथा भिक्षाचर्यायां मासकल्पे चेति गाथार्थः ॥ ४१ ॥
For Private & Personal Use Only
www.jainelibrary.org