SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ पश्चव. ३७ Jain Education Inter तवभावणणाणत्तं करिंति आयंबिलेण परिकम्मं । इत्तिरिअ थेरकप्पे जिणकप्पे आवकहिआ उ ॥ १५२४ ॥ तपोभावनानानात्वं चैषामिदं कुर्वत्यायामाम्लेन परिकर्म्म सर्वमेव, एते चेत्वरा यावत्कथिकाश्च भवन्ति, ये कल्पसमाप्तौ गच्छमागच्छन्ति ते इत्वराः, ये तु जिनकल्पं प्रतिपद्यन्ते ते यावत्कथिका इति एतदाह - इत्वराः स्थविरकल्पा इतिभूयः स्थविरकल्पे भवन्ति, जिनकल्पे यावत्कथिकास्तु भवतीति गाथार्थः ॥ २४ ॥ एतत्सम्भवमाह पुण्णे जिणकप्पं वा अइति तं चैव वा पुणो कप्पं । गच्छं वा यंति पुणो तिण्णिवि ठाणा सिमविरुद्धा १५२५ पूर्ण शुद्धपरिहारे जिनकल्पं वा यान्ति गच्छन्ति, तमेव वा पुनः कल्पं शुद्धपरिहारं, गच्छं वा गच्छन्ति पुनः, अनेन प्रकारेण त्रीण्यपि स्थानान्यमीषां - शुद्धपरिहारिकाणां न विरुद्धानीति गाथार्थः ॥ २५ ॥ इत्तिरिआणुवसग्गा आयंका वेयणा य ण भवंति । आवकहिआण भइआ तहेव छग्गामभागा उ ॥१५२६ ॥ इत्वराणां शुद्धपरिहारिकाणां उपसर्गा आतङ्का वेदनाश्च न भवन्ति, तत्कल्पप्रभावाद् जीतमेतत् यावत्कथिकानां भाज्या उपसर्गादयः, जिनकल्पस्थितानां सम्भवात्, तथैव षड् ग्रामभागास्त्वमीषां यथा जिनकल्पिकानामिति गाथार्थः ॥ २६ ॥ एतेषामेव स्थितिमभिधातुमाह खित्ते कालचरिते तित्थे परिआगमागमे वेए । कप्पे लिंगे लेसा झाणे गणणा अभिगहा य ॥ १५२७ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy