________________
Jain Education Inte
तीर्थ इति नियमत एव भवति स जिनकल्पिकः 'तीर्थे' सङ्के सति न पुनस्तदभावे, विगतेऽनुत्पन्ने वा तीर्थे, जातिस्मरणादिभिरेव कारणैरिति गाथार्थः ॥ ९१ ॥ अधिकतरं तद्-गुणस्थानं श्रेण्यादि भवत्यतीर्थे, मरुदेव्यादीनां तथाश्रवणादिति, एप किं न भवति जिनकल्पिक इत्याशङ्कयाह एषा एतस्य स्थितिः - जिनकल्पिकस्य प्रज्ञप्ता वीतरागैः, न पुनरत्र काचिद्युक्तिरिति गाथार्थः ॥ ९२ ॥ पर्यायद्वारमधिकृत्याह
परिआओ अ दुभेओ गिहिजइभेएहिं होइ णाय हो । एक्केक्को उ दुभेओ जहण्णउक्कोसओ चैव ॥१४९३ ॥ अस्स एस ओ गिहिपरिआओ जहण्ण गुणतीसा ।
जइपरिआए वीसा दोसुवि मुक्कोस देसूणा ॥ ९४९४ ॥ दारं ।
पर्यायश्च द्विभेदोऽत्र गृहियतिभेदाभ्यां भवति ज्ञातव्यः, एकैकश्च द्विभेदोऽसौ - जघन्य उत्कृष्टश्चैवेति गाथार्थः ॥ ९३ ॥ एतस्यैष ज्ञेयो गृहिपर्यायो जन्मत आरभ्य जघन्य एकोनत्रिंशद्वर्षाणि, यतिपर्यायो विंशतिवर्षाणि जघन्यः, एवं द्वयोरपि गृहियतिभेदयोरुत्कृष्टपर्यायः देशोना पूर्वकोटीति गाथार्थः ॥ ९४ ॥ आगमद्वारमधिकृत्याह - अप्पुवं गाहिज्जइ आगममेसो पडुच्च तं जम्मं । जमुचिअपगिट्ठजोगाराहणओ चेव कयकिश्च ॥१४९५ ॥ पुवाहीअं तु तयं पायं अणुसरह निच्चमेवेस । एगग्गमणो सम्मं विस्सोअसिगाइखयहेऊ ॥ १४९६ ॥ अपूर्व नाधीते आगममेषः, कुत इत्याह-प्रतीत्य तज्जन्म वर्त्तमानं, 'यद्' यस्मादुचित प्रकृष्टयोगाराधनादेव कारणात्
For Private & Personal Use Only
wwww.jainelibrary.org