________________
श्रीपञ्चव.
संलेखना - वस्तुनि ५ जिन
कल्पः
॥ २१३ ॥
Jain Education Inte
कृतकृत्यो वर्त्तत इति गाथार्थः ॥ ९५ ॥ पूर्वाधीतं तु तत् श्रुतं प्रायोऽनुस्मरति नित्यमेवैषः - जिनकल्पिकः एकाग्रमनाः सम्यग् यथोक्तं विश्रोतसिकायाः क्षयहेतुं श्रुतं स्मरतीति गाथार्थः ॥ ९६ ॥ वेदद्वारमधिकृत्याहवेओ पवित्तिकाले इत्थीवज्जोउ होइ एगयरो । पुवपडिवन्नगो पुण होज्ज सवेओ अवेओ वा ॥ १४९७ ॥ उवसम सेढीए खलु वेए उवसामिअंमि उ अवेओ ।
न उ खविए तजम्मे केवलपडिसेहभावाओ ।। १४९८ ॥ दारं ॥
वेदः प्रवृत्तिकाले तस्य स्त्रीवर्ज एव भवत्येकतरः- पुंवेदो नपुंसक वेदो वा शुद्धः, पूर्वप्रतिपन्नः पुनरध्यवसाय भेदाद्भवेत्सवेदो वा अवेदो वैष इति गाथार्थः ॥ ९७ ॥ उपशमश्रेण्यामेव वेदे उपशमिते सति अवेदो भवति, न तु क्षपिते, कुत इत्याह- तज्जन्मन्यस्य केवलप्रतिषेधभावादिति गाथार्थः ॥ ९८ ॥ कल्पद्वारमधिकृत्याह
ठिअमट्टिए अ कप्पे आचेलक्काइएस ठाणेसुं ।
सवेसु ठिआ पढमो चउ ठिअ छसु अट्ठिआ बिइओ ॥। १४९९ ॥
स्थितेsस्थिते च कल्पे एष भवति, न कश्चिद्विरोधः, अनयोः स्वरूपमाह - आचेलक्यादिषु स्थानेषु वक्ष्यमाणलक्षणेषु सर्वेषुदशस्वपि स्थिताः 'प्रथम' इति स्थितकल्पः, 'चतुर्षु स्थिता' इति शय्यातरराजपिण्डकृतिकर्म्मज्येष्ठपदेषु स्थिताः मध्य मतीर्थकरसाधवोऽपि षट्सु अस्थिताः - आचेलक्यादिष्वनियमवन्त इति द्वितीयः - अस्थितकल्प इति गाथार्थः ॥ ९९ ॥ स्थानान्याह
For Private & Personal Use Only
पर्यायागमवेदकल्पाः
॥२१३ ॥
www.jainelibrary.org