________________
श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन
कल्पः
॥२०७॥
Jain Education Inter
तथा कियन्तो जना इति यूयं वत्स्यथात्र वसताविति एवमपि यस्यां वसतौ भणति गृही - दाताऽनुज्ञायां प्रस्तुतायां परिहरत्यसौ महामुनिर्नवरमेतामपि वसतिमिति गाथार्थः || ४९|| परिहारप्रयोजनमाह - सूक्ष्ममप्यचियत्तम्- अप्रीतिलक्षणं परिहर त्यसौ भगवान् परस्य नियमेन ' यद्यस्मात्तेन कारणेन तुशब्दात् मूलगाथोपात्ताद्वर्जयत्यन्यामपि वसतिं तज्जननीम्ईषदप्रीतिजननीं, न च ममत्वमन्तरेण तथा विचारः क्रियत इति गाथार्थः ॥ ५० ॥ व्याख्याता द्वितीयमूलगाथा, अधुना तृतीया व्याख्यायते, तत्र भिक्षाचर्याद्वारविधिमाह
भिक्खाअरिआ णियमा त आए एसणा अभिग्गहिआ ।
अस्स पुवभणि एकाविअ होइ भत्तस्स ॥ १४५१ ॥ दारं ।
भिक्षाचर्या नियमात् - नियोगेन तृतीयायां पौरुष्याम्, एषणा च ग्रहणैषणाभिगृहीता भवत्यस्य पूर्वभणिता जिनकल्पिकस्य, एकैव भवति भक्तस्य, न द्वितीयेति गाथार्थः ॥ ५१ ॥ पानकद्वारविधिमाह - पाणगगहणं एवं ण सेसकालं पओअणाभावा । जाणइ सुआइसयओ सुद्धमसुद्धं च सो सवं ॥ १४५०॥ दारं पानकग्रहणमध्येवमस्य, न शेषकालं, प्रयोजनाभावात् कारणात् संसक्तग्रहणदोषपरिहारमाह-जानाति श्रुतातिशयत एव शुद्धमशुद्धं च स सर्व पानकमिति गाथार्थः ॥ ५२ ॥ लेपालेपद्वारविधिमाह - | लेवालेवंति इहं लेवाडेणं अलेवडं जं तु । अपणेण असंमिस्सं दुगंपि इह होइ विपणेअं ॥ १४५३ ॥ दारं ॥
For Private & Personal Use Only
दीपादीनि द्वाराणि
॥२०७॥
www.jainelibrary.org