________________
Jain Education Inter
अह सुत्तभावणं सो एगग्गमणो अणाउलो भयवं । कालपरिमाणहेउं सब्भत्थं सबहा कुणइ ॥ १३९८॥ उसासाओ पाणू ओ अ थोवो तओऽविअ मुहुत्तो । एएहिं पोरिसीओ ताहिपि णिसाइ जाणेइ ॥ १३९९ ॥
एत्तो उवओगाओ सदेव सोऽमूढलक्खयाए उ । दोसं अपायमाणो करेइ किचं अविवरीअं ॥ १४०० ॥ || मेहाइच्छपणेसुं उभओकालं अहव उवसग्गे । पेहाइ भिक्खपंथे जाणइ कालं विणा छायं ॥ १४०१ ॥
प्रथमोपाश्रये प्रतिमा, द्वितीया बहिरुपाश्रयस्य, तृतीया चतुष्के स्थानसम्बन्धिनि, शून्यगृहे चतुर्थी स्थानसम्बन्धिन्येव, तथा पञ्चमी श्मशाने प्रतिमेति गाथार्थः ॥ ९५ ॥ एतासु प्रतिमासु स्तोकस्तोकं यथा समाधिना पूर्वप्रवृत्तां जयति निद्रामसौ - ऋषिः, मूषिकास्पृष्टादौ तथा, आदिशब्दान्मार्जारादिपरिग्रहः, भयं च सहसोद्भवमजितं जयतीति गाथार्थः ॥ ९६ ॥ अनेनासौ क्रमेण यथोपन्यस्तेन डिम्भकतस्करसुरादिकृतमेतद्-भयं जित्वा महासत्त्वः सर्वासु प्रतिमासु वहति भरं प्रस्तुतं निर्भयः सन् सकलमिति गाथार्थः ॥ ९७ ॥ श्रुतभावनामाह - अथ सूत्रभावनामसौ -ऋषिरेका प्रमनाः अन्तःकरणेन, अनाकुलो वहिर्वृत्या, भगवानसौ कालपरिमाणहेतोः, तदभ्यासादेव तद्गतेः स्वभ्यस्तां सर्वथा करोति उच्च्छ्रासादिमानेनेति गाथार्थः ॥ ९८ ॥ एतदेवाह - उच्छासात् 'प्राण' इत्युच्छ्रासनिश्वासः, 'ततश्च' प्राणात्
For Private & Personal Use Only
www.jainelibrary.org