________________
श्रीपञ्चव. अनुयोगास्तवपरि
ज्ञायां
॥ १९७ ॥
Jain Education Intern
स्वयमेवायुःकालं ज्ञात्वा बहु शेषं श्रुतातिशयेन, प्रष्टुं वा श्रुतातिशययुक्तमन्यं, बहु शेषं ज्ञात्वा सुबहुगुणलाभकाङ्क्षी सन् साधुः विहारं - क्रियारूपमभ्युद्यतं भजते, प्रधानमिति गाथार्थः ॥ ७८ ॥ प्रसङ्गमभिधाय 'पञ्च तुलने' ति द्वारं व्याचि -
ख्यासुराह—
| गणिउवझायपवित्ती थेरगणच्छेइआ इमे पंच। पायमहिगारिणो इह तेसिमिमा होइ तुलणा उ ॥ १३७८॥ गणणिक्खे वित्तिरिओ गणिस्स जो वा ठिओ जहिं ठाणे । जो तं अप्पसमस्स उ णिक्खिवई इत्तरं चैव ॥ १३७९ ॥
| पिच्छामु ताव एए केरिसया होंतिमस्स ठाणस्स ? | जोग्गाणवि पाएणं णिवहणं दुक्करं होइ ॥ १३८० ॥ णय बहुगुणचाएणं थेवगुणपसाहणं बुहजणाणं । इट्टं कयाइ कज्जं कुसला सुपइट्टिआरंभा ॥ १३८१ ॥ द्वारं ।
'गणी' गच्छाधिपाचार्यः 'उपाध्यायः' सूत्रप्रदः 'प्रवृत्तिः' उचिते प्रवर्त्तकः स्थविरः स्थिरीकरणात् 'गणावच्छेदकः' गणदेशपालनाक्षमः, एते पञ्च पुरुषाः प्रायः अधिकारिण 'इह' अभ्युद्यतविहारे, एतेषामियं वक्ष्यमाणा भवति तुलनेति गाथार्थः ॥ ७८ ॥ गणनिक्षेप 'इत्वरः' परिमितकालो गणिनो भवति, यो वा स्थितो यत्र स्थाने - उपाध्यायादौ स तत्पदमात्मसमस्यैव निक्षिपतीत्वरमेव अपरस्य साधोरिति गाथार्थः ||७९ || पश्यामस्तावदेते-अभिनवाचार्यादयः कीदृशा भव
For Private & Personal Use Only
इत्वरगणनिक्षेपः
॥ १९७॥
www.jainelibrary.org