________________
Jain Education In
उत्तमप्रशस्तध्यानः' प्रवृद्धशुभयोगः हृदयेनेदं वक्ष्यमाणं वस्तु विचिन्तयन्तीति गाथार्थः ॥ ७२ ॥ अनुपालित एव दीर्घः पर्यायः - प्रव्रज्यारूपः, वाचना तथा दत्ता उचितेभ्यः, निष्पादिताश्च शिष्याः, कृत ऋणमोक्षः, मम किं साम्प्रतं युक्तम्, एतच्चिन्तयतीति गाथार्थः ॥ ७३ ॥ किन्नु विहारेणाभ्युद्यतेन – जिनकल्पादिना विहराम्यनुत्तरगुणेन, एतत्कालापेक्षया, उताभ्युद्यतशासनेन विधिना — सूत्रोकेनानुम्रिये इति गाथार्थः ॥ ७४ ॥ प्रारब्धाव्यवच्छित्तिः - प्रव्रज्यानि, र्वहणमखण्डं इदानीमुचितकरणाद्भवति, इतरथा तु—तदकरणे विरसावसानतः कारणात् न प्रारब्धाव्यवच्छित्तिः, तन्त्र्यूनत्वादिति, अत्र द्वारस्य-अन्यवच्छित्तिमनःसंज्ञितस्य सम्पात इति गाथार्थः ॥ ७५ ॥ अभ्युद्यतविहाराभ्युद्यतमरण
स्वरूपमाह-
जिणसुद्ध जहालंदा तिविहो अब्भुज्जओ इह विहारो । अन्भुजयमरणपि अ पाउगमे इंगिणि परिण्णा ॥ १३७६ ॥
'जिन शुद्धयथालन्दाः' जिनकल्पिकाः शुद्धपरिहारिकाः यथालन्दिकाश्चेति त्रिविधोऽभ्युद्यतः 'इह' प्रवचने बिहारः, अभ्युद्यतमरणमपि च इह त्रिविधमित्याह - ' पादपोपगमनेङ्गितपरिज्ञाः पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति | गाथासमासार्थः ॥ ७६ ॥ व्यासार्थस्त्वस्याः प्रस्तुतं द्वारमेत्र
सयमेव आउकालं गाउं पुच्छित्तु वा बहुं सेसं । सुबहुगुणलाभकंखी विहारमब्भुज्जयं भयई ॥ १३७७ ॥
For Private & Personal Use Only
www.jainelibrary.org