________________
Jain Education Int
कालोचित गुणरहिता सती या च स्थापयति प्रवर्त्तिनीशब्दं तथा निविष्टमपि सन्तं नानुपालयति सम्यगेनमेव विशुद्धभावा सती स्वशक्त्या साऽपि महापापेति गाथार्थः ॥ २२ ॥ इहैव दोषमाह
लोगम्मि अ उवघाओ जत्थ गुरू एरिसा तर्हि सीसा । लट्ठयरा अण्णेसिं अणायरो होइ अ गुणेसु ॥१३२३॥ | गुरुअरगुणमलणाए गुरुअरबंधोत्ति ते परिच्चत्ता । तदहिअनिओअणाए आणाकोवेण अप्पावि ॥ १३२४ ॥ तम्हा तित्थयराणं आराहिंतो जहोइअगुणेसु । दिज्ज गणं गीअत्थे णाऊण पवित्तिणिपयं वा ॥ १३२५॥
लोके चोपघातो भवत्येतत्स्थापने, यत्र गुरवः 'ईदृशा' अनाभोगवन्तः तत्र शिष्याः 'लष्टतराः' शोभनतरा इत्यतिशयवचनम्, एवं च क्रियमाणेऽन्येषां प्राणिनामनादरो भवति च गुणेषु गणधरादिसम्बन्धिषु तदभावेऽपि तत्पदसिद्धेरिति गाथार्थः ॥ २३ ॥ स्वपरपरित्याग एवमित्येतदाह - गुरुतरगुणमलनया गणधरादिपदे सत्ययोग्यानां गुरुतरो बन्ध | इत्येवं ते परित्यक्ता भवन्ति, अनर्थयोजनात्, एवं तदहित नियोजनया हेतुभूतया आज्ञाकोपेन च भगवतः आत्माऽपि परित्यक्त इति गाथार्थः ॥ २४ ॥ 'तत्' तस्मात्तीर्थकराज्ञामाराधयन् साधुः यथोदितगुणेषु साधुषु दद्याद् गणं गीतार्थो ज्ञात्वा गुणान् प्रवर्त्तनीपदं वेति गाथार्थः ॥ २५ ॥ स्वलब्धियोग्यमाह
दिक्खाव एहिं पत्तो धिइमं पिंडेसणाइविष्णाआ । पेढाइधरो अणुवत्तओ अ जोगो सलडीए ॥ १३२६ ॥ ‘दीक्षावयोभ्यां प्राप्तः' चिरप्रत्रजितः परिणतश्च धृतिमान् संयमे पिण्डेषणादिविज्ञाता, आदिशब्दाद्वस्त्रैषणादिपरिग्रहः,
For Private & Personal Use Only
www.jainelibrary.org