________________
Jain Education Intern
'इय' एवमनुयोगानुज्ञा 'लेशेन' सङ्क्षेपेण निदर्शितेति, इतराऽनुज्ञा एतस्यैव क्रियते आचार्यस्य, कदाचिदन्यस्य क्रियते गुणयोगात् कारणादिति गाथार्थः ॥ १४ ॥ अस्या योग्यमाह -
सुत्तत्थे णिम्माओ पिअदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपण्णो गंभीरो लद्धिमंतो अ ॥ १३१५ ॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी अ । एवंविहो उ भणिओ गणसामी जिणवरिं देहिं ॥ १३१६ ॥
सूत्रार्थे ‘निर्मातः' निष्ठितः ‘प्रियदृढ धर्म्मः' उभययुक्तः 'अनुवर्त्तनाकुशलः' उपायज्ञः 'जातिकुलसम्पन्नः' एतद्वयसमन्वितः 'गम्भीरो' महाशयो लब्धिमांश्च, उपकरणाद्यधिकृत्येति गाथार्थः ॥ १५ ॥ ' संग्रहोपग्रहनिरतः ' सङ्ग्रहः उपदेशादिना उपग्रहो वस्त्रादिना, व्यत्ययः इत्यन्ये, 'कृतकरणः' अभ्यस्तक्रियः प्रवचनानुरागी च, प्रकृत्या परार्थप्रवृत्तः, एवंविध एव 'भणितः प्रतिपादितो 'गणस्वामी' गच्छधरो जिनवरेन्द्रैर्भगवद्भिरिति गाथार्थः ॥ १६ ॥ तथा
अत्था करणा कुलजा परिणामिआ य गंभीरा ।
चिरदिक्खिआय वुड्डा अजावि पवित्तिणी भणिआ ॥ १३१७ ॥
'गीतार्था' श्रुतोचितागमा 'कृतकरणा' अभ्यस्तक्रिया कुलजा विशिष्टा 'पारिणामिकी च' उत्सर्गापवादविषयज्ञा 'गम्भीरा' महाशया 'चिरदीक्षिता च ' दीर्घपर्याया वृद्धा वयोऽवस्थया 'आर्याऽपि संयत्यपि प्रवर्त्तिनी भणिता जिनवरेन्द्रैरिति गाथार्थः ॥ १७ ॥
For Private & Personal Use Only
www.jainelibrary.org