________________
श्रीपञ्चव. अनुयोगास्तवपरि
ज्ञायां
॥ १८८ ॥
Jain Education Inter
दवत्थयंपि काउं ण तरड़ जो अप्पवीरिअत्तेणं । परिसुद्धं भावथयं काही सोऽसंभवो एस | १३०३ ॥ जं सो उक्किट्ठयरं अविक्खई वीरिअं इहं णिअमा । णहि पलसयंपि वोढुं असमत्थो पवयं वहई ॥ १३०४ ॥ जो बज्झच्चाएणं णो इत्तिरिअपि णिग्गहं कुणइ । इह अप्पणो सया से सवच्चाएण कह कुज्जा ? ॥१३०५ ॥ आरंभच्चारणं णाणाइगुणेसु वडमाणेसु । दवट्ठयहाणीवि हु न होइ दोसाय परिसुद्धा ॥ १३०६ ॥
कृतमत्र प्रसङ्गेन द्रव्यस्तवादिविचारे, एवं यथोदि (चि) तावेव प्रधानगुणभावतो द्रव्यभावस्तवावित्यन्योऽन्यसमनुविद्धौ नियमेन भवतः ज्ञातव्यौ, अन्यथा स्वरूपाभाव इति गाथार्थः ॥ १ ॥ अनयोर्विधिमाह – अल्पवीर्यस्य प्राणिनः 'प्रथमो' द्रव्यस्तवः सहकारिविशेषभूतो वीर्यस्य श्रेयानिति, 'इतरस्य' बहुवीर्यस्य साधोर्वाह्यत्यागादिति - बाह्यद्रव्यस्तव त्यागेन इतर एव श्रेयान् भावस्तव इत्येषः परमार्थोऽत्र द्रष्टव्य इति गाथार्थः ॥ २ ॥ विपर्यये दोषमाह - द्रव्यस्तवमपि कर्त्तुमौचित्येन न शक्नोति यः सत्त्वोऽल्पवीर्यत्वेन हेतुना परिशुद्धं भावस्तवं यथोक्तमित्यर्थः करिष्यति असावसम्भव एषः, दलाभावादिति गाथार्थः ॥ ३ ॥ एतदेवाह - यदसौ-भावस्तव उत्कृष्टतरमपेक्षते वीर्य-शुभात्मपरिणामरूपमिह नियमात्, अतोऽल्पवीर्यः कथं करोत्येनमिति, नहि पलशतमपि वोढुमसमर्थः मन्दवीर्यः सत्त्वः पर्वतं वहति, पलशततुल्यो द्रव्यस्तवः पर्वततुल्यस्तु भावस्तव इति गाथार्थः ॥ ४ ॥ एतदेव स्पष्टयति — यो बाह्यत्यागेन, बाह्यं वित्तं, नेत्वरमपि निग्रहं करोति वन्दनादौ इहात्मनः क्षुद्रः, सदाऽसौ - यावज्जीवं 'सर्वत्यागेन' बाह्याभ्यन्तरत्यागेन कथं कुर्यात् आत्मनो निग्रहमिति
For Private & Personal Use Only
द्रव्यभावस्तवयोरधिकारिणौ
॥ १८८ ॥
wwww.jainelibrary.org