________________
पञ्चय. ३२
Jain Education Inter
द्वस्तुनि जात इति कथयति, एवं सति यदसौ वैदिकस्तत्त्वं स व्यामोहः, स्वतोऽप्यज्ञत्वादिति गाथार्थः ॥ ८९ ॥ ' ततश्च' वैदिकादाचार्यात् आगमो - यो व्याख्यारूप: विनेयसत्त्वानां संबन्धी सोऽप्येवमेव - व्यामोह एव, 'तस्य' आगमार्थस्य प्रयोगोऽप्येवं व्यामोह एव, अनिवारणं च नियमेन व्यामोह एवेति गाथार्थः ॥ ९० ॥ नैवं परम्परया मानं अत्र व्यतिकरे गुरुसम्प्रदायोऽपि, निदर्शनमाह - रूपविशेषस्थापने सितेतरादौ यथा जात्यन्धानां सर्वेषामनादिमतामिति गाथार्थः ॥ ९१ ॥ पराभिप्रायमाह-
भवओऽवि अ सवण्णू सवो आगमपुरस्सरो जेणं । ता सो अपोरुसेओ इअरो वाऽणागमा जो उ ॥१२९२ ॥ नोभयमवि जमणाई बीअंकुरजीवकम्मजोगसमं । अहवऽत्थतो उ एवं ण वयणउ वत्तहीणं तं ॥ १२९३ ॥
भवतोऽपि च सर्वज्ञः सर्व आगमपुरस्सरः येन कारणेन, स्वर्ग केवलार्थिना तपोध्यानादिकं कर्त्तव्यमित्यागमः, अतः प्रवृत्तेरिति, तदसावपौरुषेय आगमः, अनादिमत्सर्वज्ञसाधनत्वात्, 'इतरो वा' सर्वज्ञो नागमादेव, कस्यचित्तमन्तरेणापि भावादिति गाथार्थः ॥ ९२ ॥ अत्रोत्तरम् - 'न' नैतदेवमुभयमपि - आगमः सर्वज्ञश्च 'यद्' यस्मादनादि बीजाङ्कुरजीवककर्मयोगसमं, न ह्यत्रेदं पूर्वमिदं नेति व्यवस्था, ततश्च यथोक्तदोशभावः, अथवा अर्थत एवैवं - बीजाङ्कुरादिन्यायः, सर्व एव कथंचिदागमार्थमासाद्य सर्वज्ञो ज्ञातः, तदर्थश्च तत्साधक इति 'न वचनतो' न वचनमेवाश्रित्य मरुदेव्यादीनां प्रकारान्तरेणापि भावात् इतश्च न वचनतोऽनादिः यतो वऋधीनं तत्, न ह्यनाद्यपि वक्तारमन्तरेण वचनप्रवृत्तिः, उपाया
For Private & Personal Use Only
www.jainelibrary.org