________________
जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाणं । सद्धाबोहासेवणभावेणाराहओ भणिओ ॥ १२६३ ॥ एसाय होइ नियमा तयहिगदोसविणिवारणी जेण। तेण णिवित्तिपहाणा विन्नेआ बुद्धिमंतेणं ॥१२६४ ॥ सा इह परिणयजलदलविसुद्धरूवाओँ होइ विणणेआ।अथवओ महंतो सबो सो धम्महेउत्ति ॥१२६५॥ । अल्पा च भवत्येषा-हिंसाऽत्र यतनया वर्तमानस्य-जिनभवनादौ, यतना च धर्मसारो-हृदयं विज्ञेया 'सर्वकार्येषु ग्लानादिष्विति गाथार्थः ॥ ६१॥ यतनेह धर्मजननी, ततः प्रसूतेः, यतना धर्मस्य पालनी चैव, प्रसूतरक्षणात्, तद्वद्धिकारिणी यतना, इत्थं तद्वद्धेः, एकान्तसुखावहा यतना, सर्वतोभद्रत्वादिति गाथार्थः॥१२॥ यतनया वर्तमानो जीवः परमार्थेन सम्यक्त्वज्ञानचरणानां त्रयाणामपि श्रद्धाबोधासेवनभावेन हेतुना आराधको भणितः, तथा प्रवृत्तेरिति । गाथार्थः॥ ६३ ॥ एषा च भवति नियमात्-यतना तदधिकदोषविनिवारणी येन अनुबन्धेन तेन निवृत्तिप्रधाना तत्त्वतः विज्ञेया बुद्धिमता सत्त्वेनेति गाथार्थः॥ ६४ ॥ 'सा' यतना 'इह' जिनभवनादौ परिणतजलदलविशुद्धिरूपैव भवति विज्ञेया, प्रासुकग्रहणेन, अर्थव्ययो महान् यद्यपि तत्र तथापि सर्वोऽसौ धर्महेतुः, स्थाननियोगादिति गाथार्थः॥६५॥ प्रसङ्गमाह
एत्तो च्चिअनिदोसं सिप्पाइविहाणमो जिणिदस्स। लेसेण सदोसंपि हु बहुदोसनिवारणत्तेणं ॥१२६६॥ 18|वरवोहिलाभओ सो सबुत्तमपुण्णसंजुओ भयवं । एगंतपरहिअरओ विसुद्धजोगो महासत्तो ॥१२६७॥
Jain Education Intern
For Private & Personal Use Only
Neww.jainelibrary.org