________________
श्रीपञ्चव. अनुयोगास्तवपरि
ज्ञायां
॥ १८१ ॥
Jain Education Inte
न च बहूनामप्यत्र - लोकेऽविगानम् - एकवाक्यतारूपं शोभनमिति नियमोऽयं, न च न स्तोकानामपि न शोभनमेव, कुत ४ नवेदवज्जि - इत्याह- 'मूढेतरभावयोगेन' बहूनामपि मूढव्यापारभावात् स्तोकानामपि चाभावादिति गाथार्थः ॥ ३८ ॥ न च रागादिविरहितः सर्वज्ञः कश्चित् प्रमाता विशेषकारीति य एवं वेद वैदिकमेव प्रमाणं नेतरदिति, कुत इत्याह-यत्सर्व एव पुरुषाः सामान्येन रागादियुक्ता एव, परपक्षे सर्वज्ञानभ्युपगमादिति गाथार्थः ॥ ३९ ॥ दोषान्तरमाह – 'एवं च' प्रमाणविशेषापरिज्ञाने सति वचनमात्रात् सकाशात् धर्म्मादोपौ ते प्राप्नुतः म्लेच्छानामपि - भिल्लादीनां क्केत्याह - घातयतां 'द्विजवरं' ब्राह्मणमुख्यं पुरतो ननु 'चण्डिकादीनां' देवताविशेषाणामिति गाथार्थः ॥ ४० ॥ न च ' तेषामपि' म्लेच्छानां न वचनम् अत्र निमित्तमितिद्विजघाते, किन्तु वचनमेव, कुत इत्याह-यन्न सर्व एव म्लेच्छाः 'तं' द्विजवरं तथा घातयन्ति तदा, 'अश्रुततच्चोदनावाक्याद्' द्विजघात चोदनावाक्यात् इति गाथार्थः ॥ ४१ ॥ अथ 'तत्' म्लेच्छप्रवर्त्तकं वचनं नात्र रूढं लोक इत्याशङ्कयाहएतदपि वैदिकं न 'तत्र' भिल्ललोके रूढमिति तुल्यमेव 'इदम्' अन्यतरारूढत्वम्, अथ तत् म्लेच्छप्रवर्त्तकं स्तोकमनुचितम् - असंस्कृतमित्याशङ्कयाह - 'इदमपि' वैदिकं चोदनारूपमीदृशमेव - स्तोकादिधर्मकं तेषां म्लेच्छानामाशयभेदादिति गाथार्थः ॥ ४२ ॥ अथ तद्वेदाङ्गं खलु द्विजप्रवर्त्तकमित्याशङ्कयाह-न तदपि म्लेच्छप्रवर्त्तकमेवमेव वेदे इत्यत्रापि न मानं, अथ 'तत्र' वेदेऽश्रवणमिदं - मानं, न हि तद्वेदे श्रूयत इत्याशङ्कयाह- स्यादेतद्-उत्सन्नशाखमेवै तदपि सम्भाव्यत इति गाथार्थः ॥ ४३ ॥ न च 'तद्वचनाद्' वेदवचनादेव 'तदुभयभावो' धर्म्मादोपभाव इति, कुत इत्याह- तुल्यभणितेः, म्लेच्छवचना
For Private & Personal Use Only
नभवन
हिंसा
॥ १८१ ॥
www.jainelibrary.org