________________
CCCCC
हिंसां कुर्वत इत्येतदाशङ्ख्याह-तुल्यमेतदपि, कथमित्याह-इतरस्यापि च वेदविहितहिंसाकर्तः शुभ एव ज्ञेयो भावः, 'इतरां' वेदविहितां हिंसां कुर्वतो यागविधानेनेति गाथार्थः ॥ ३१ ॥ एकेन्द्रियादयोऽथ ते जिनभवनादौ हिंस्यन्त इत्याशङ्याह-इतरे स्तोका इति वेदात् यागे हिंस्यन्ते, तत्किमेतेन-भेदाभिनिवेशेन ?, धर्मार्थ सर्वैव, सामान्येन वचनाद्, एषाहिंसा न दुष्टेति गाथार्थः ॥ ३२ ॥ एवं पूर्वपक्षमाशङ्याह-एतदपि न युक्तिक्षमं यदुक्तं परेण, कुत इत्याह-न वचनमा-10 त्रादनुपपत्तिकाद् भवत्येवमेतत् सर्वमेव, कुत इत्याह-संसारमोचकानामपि वचनाद्धिंसाकारिणां 'धर्मादोषप्रसङ्गात् धर्मप्रसङ्गात् अदोषप्रसङ्गाच्चेति गाथार्थः ॥३३॥ स्यात् 'तत्' संसारमोचकवचनं न सम्यग्वचनमित्याशङ्ख्याह-'इतरत्' वैदिक सम्यग वचन मिति किं मानं ?, अथ लोक एवं मानमित्याशङ्कयाह-नैतत्तथा, लोकस्य प्रमाणतया अपाठात्, प्रमाणमध्ये पटूसङ्ख्याविरोधात्, तथा विगानाच्च, नहि वेदवचनं प्रमाणमित्येकवाक्यता लोकस्येति गाथार्थः॥ ३४ ॥ अथ पाठोऽभिमत एव लोकस्य प्रमाणमध्ये, पण्णामुपलक्षणत्वात् , विगानमप्यत्र-वेदवचनाप्रामाण्ये स्तोकानांमेव लोकानामित्येतदाशङ्याह-अत्रापि-एवं कल्पनायां न प्रमाणं, सर्वेषां लोकानामदर्शनाद्, अल्पबहुत्वे निश्चयाभावादिति गाथार्थः ॥ ३५ ॥ किं तेषां सर्वेषां लोकानां दर्शनेन ?, अल्पबहुत्वं यथाऽत्र-मध्यदेशादौ वेदवचनप्रामाण्यं प्रति तथैव सर्वत्र क्षेत्रान्तरेष्वपि समवसेयं, लोकत्वादिहेतुभ्य इत्याशङ्कयाह-नैवं, व्यभिचारभावात् कारणादिति गाथार्थः॥ ३६॥ एतदेवाह-अग्राहारे बहवो दृश्यन्ते 'द्विजाः' ब्राह्मणास्तथा न शूद्रा इति ब्राह्मणवद्ववो दृश्यन्ते, न च तदर्शनादेव' अग्रा| हारे बहुद्विजदर्शनादेव 'सर्वत्र' भिल्लपयादावप्येतद्भवति एवं-द्विजबहुत्वमिति गाथार्थः ॥ ३७॥ उपपत्त्यन्तरमाह
पञ्चव. ३१|
Jan Education in
For Private & Personal use only
ww.jainelibrary.org