________________
Jain Education Inte
देवैतदुभयमित्यपि वक्तुं शक्यत्वादित्यर्थः, अन्यापि कल्पना ब्राह्मणपरिगृहीतत्वादिरूपा 'एवम् उक्तवत् भिल्लपरिगृहीतत्वादिना प्रकारेण साधर्म्यवैधर्म्यतः कारणाद् दुष्टेति गाथार्थः ॥ ४४ ॥ यस्मादेवम्—
तम्हा ण वयणमित्तं सवत्थऽविसेसओ बुहजणेणं । एत्थ पवित्तिनिमित्तंति एअ दट्ठव्वयं होइ ॥ १२४५ ॥ किं पुण विसिगं चिअ जं दिट्टिट्ठाहि णो खलु विरुद्धं ।
तह संभवंस (त) रूवं विआरिडं सुद्धबुद्धीए || १२४६ ॥
|जह इह दवथयाओ भावावयकप्पगुणजुआ सेओ। पीडुवगारो जिणभवणकारणादित्ति न विरुद्धं ॥ १२४७॥ तस्मात् न वचनमेव ( मात्र ) मुपपत्तिशून्यं सर्वत्राविशेषतः कारणाद् बुधजनेन - विद्वज्जनेन 'अत्र' लोके प्रवृत्तिनिमितमिति हितादौ एवं ( एतत् ) द्रष्टव्यं भवति, नेति वर्त्तते इति गाथार्थः ॥ ४५ ॥ किं पुनः १, विशिष्टमेव वचनं प्रवृ त्तिनिमित्तमिति द्रष्टव्यं किम्भूतमित्याह-यत् दृष्टेष्टाभ्यां न खलु विरुद्धं, तृतीयस्थान सङ्कान्तमित्यर्थः, तथा सम्भवद्रूपं यत्, न पुनरत्यन्तासम्भवीति विचार्य शुद्धबुद्ध्या - मध्यस्थयेति गाथार्थः ॥ ४६ ॥ यथा इह प्रवचने द्रव्यस्तवात्, किम्भूतादित्याह - भावापत्कल्पगुणयुक्तात्, नान्यथारूपात् 'श्रेयो' ज्यायान् पीडयोपकारो बहुगुणभावाद् जिनभवनकारणादेः द्रव्यस्तवादिति न विरुद्धमेतदिति गाथार्थः ॥ ४७ ॥ एतदेव स्पष्टयति
सइ सवत्थाभावे जिणाण भावावयाऍ जीवाणं । तेसिं णित्थरणगुणं णिअमेणिह ता तदायतणं ॥ १२४८॥
For Private & Personal Use Only
www.jainelibrary.org