SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ १७६ ॥ Jain Education Int तथापि न भवति तत् सुवर्ण, शेषैर्गुणैः- विषघातित्वादिभिरसद्भिरिति गाथार्थः ॥ ९९ ॥ प्रस्तुतमधिकृत्याह - य इह शास्त्रे भणिता मूलगुणादयः साधुगुणास्तैर्भवत्यसौ साधुः वर्णेन सता जात्यसुवर्णवत् सति 'गुणनिधौ' विषघातित्वादिरूप इति गाथार्थः ॥ १२०० ॥ दान्तिकमधिकृत्याह - यः साधुर्गुणरहितः सन् भिक्षामटति न भवत्यसौ साधुः, एतावता वर्णेन सता केवलेन, युक्तिसुवर्णवद्, असति गुणनिधौ - विषघातित्वादिरूप इति गाथार्थः ॥ १ ॥ उद्दिश्य कृतं भुङ्क्ते, आकुट्टिकया, पटुकायप्रमर्दनो निरपेक्षतया, गृहं करोति देवव्याजेन, प्रत्यक्षं च जलगतान् प्राणिनो यः पिवत्याकुट्टिकया एव, कथं न्वसौ साधुर्भवति ?, नैवेति गाथार्थः ॥ २ ॥ अन्ये त्वाचार्याः इत्थमभिदधति - कपादयः प्रागुक्ताः किल एतेउद्दिष्टभोक्तृत्वादयः 'अत्र' साध्वधिकारे भवन्ति ज्ञातव्या यथाक्रमं किमुक्तं भवतिः - ताभिः परीक्षाभिः भावसाराभिः साधु परीक्षा 'इ' प्रक्रमे कर्त्तव्येति गाथार्थः ॥ ३ ॥ निगमयन्नाह - तस्माद् य इह शास्त्रे भणिताः साधुगुणाः - प्रतिदिन - क्रियादयस्तैः करणभूतैर्भवत्यसौ भावसाधुः, नान्यथा, अत्यन्तसुपरिशुद्धैः, तैरपि न द्रव्यमात्ररूपैः, मोक्षसिद्धिरितिकृत्वा, भावमन्तरेण तदनुपपत्तेरिति गाथार्थः ॥ ४ ॥ प्रकृतयोजनामाह अलमित्थ पसंगेणं एवं खलु होइ भावचरणं तु । पडिबुज्झिस्संतऽपणे भावजिअकम्मजोएणं ॥ १२०५ ॥ अपरिवडिअसुहचिंताभावज्जियकम्मपरिणईओ उ । एअस्स जाइ अंतं तओ स आराहणं लहइ ॥ १२०६ ॥ निच्छयणया जमेसा चरणपडिवत्तिसमयओ पभिई । आमरणंतमजस्सं संजम परिपालणं विहिणा १२०७ For Private & Personal Use Only जिनबिम्बफलम् गा. १२०५-८ ॥ १७६ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy