________________
Jain Education Inter
वक्ष्यमाणमिति गाथार्थः ॥ ९० ॥ शास्त्रोक्तगुणी साधुः - एवम्भूत एव न शेषाः - शास्त्रबाह्याः, 'नः' अस्माकं 'प्रतिज्ञा' पक्ष इत्यर्थः, इह न शेषा इत्यत्र 'हेतुः' साधकः अगुणत्वादिति ज्ञेयः, तद्गुणरहितत्वादित्यर्थः, दृष्टान्तः पुनः सुवर्णमिवात्र व्यतिरेकत इति गाथार्थः ॥ ९१ ॥ सुवर्णगुणानाह - विषघाति सुवर्ण, तथा रसायनं - वयः स्तम्भनं, 'मङ्गलार्थे' मङ्गलप्रयोजनं, विनीतं कटकादियोग्यतया, प्रदक्षिणावर्त्तमग्नितप्तं प्रकृत्या, गुरु सारतया, अदाह्यं सारतयैव, अकुथनीयमत एव, एवमष्टौ सुवर्णे गुणाः भवन्त्यसाधारणा इति गाथार्थः ॥ ९२ ॥ दान्तिकमधिकृत्याह - इति मोहविषं घातयति केषां - चित् शिवोपदेशात्, तथा रसायनं भवति, अत एव, परिणतान्मुख्यं, गुणतश्च मङ्गलार्थं करोति, प्रकृत्या विनीतश्च योग्य इतिकृत्वा एष गाथार्थः ॥ ९३ ॥ मार्गानुसारित्वं सर्वत्र प्रदक्षिणावर्त्तता, गम्भीरश्चेतसा गुरुः, तथा भवति क्रोधाग्निनाऽदाह्यो, ज्ञेयोऽकुथनीयः सदोचितेन शीलभावेनेति गाथार्थः ॥ ९४ ॥ एवं दृष्टान्तगुणा - विषघातित्वादयः साध्येऽप्यत्र - साधौ भवन्ति ज्ञातव्याः, न हि साधर्म्याभावे एकान्तेनैव प्रायो यद् - यस्माद्भवति दृष्टान्त इति गाथार्थः ॥ ९५ ॥
चतुष्कारणपरिशुद्धं चैतद्भवति, कषेण छेदेन तापेन ताडनया चेति, यदेवम्भूतं तद्विषघातिरसायनादिगुणसंयुक्तं भवति, नान्यत्, परीक्षेयमिति गाथार्थः ॥ ९६ ॥ 'इतरस्मिन्' साधौ कपादयो यथासङ्खयमेते, यदुत - विशिष्टा लेश्या कपः, तथैकसारत्वं छेदः, अपकारिण्यनुकम्पा तापः, व्यसनेऽतिनिश्चलं चित्तं ताडना, एषा परीक्षेति गाथार्थः ॥ ९७ ॥ तत्कृनगुणोपेतं सद् भवति सुवर्ण तात्त्विकं, न शेषकं 'युक्ति' रिति युक्तिसुवर्ण, नापि नामरूपमात्रेण बाह्येन एवमगुणः सन् भावापेक्षया भवति साधुरिति गाथार्थः ॥ ९८ ॥ युक्तिसुवर्णकं पुनः अतात्त्विकं सुवर्णवर्णमिव यद्यपि क्रियेत कथञ्चित्
For Private & Personal Use Only
www.jainelibrary.org