SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ १७२ ॥ Jain Education Inter जीवाः- पृथ्व्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाः, अजीवकायश्च पुस्तकचर्म्मतृणशुषिरपञ्चकरूपः, | श्रमणधर्म्मस्तु क्षान्त्यादिर्दशप्रकारः - क्षान्तिमाद्देवार्जवमुक्तितपःसंयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपः, एवं स्थिते यन्त्रे सति तत्र भावना एषा - वक्ष्यमाणा शीलाङ्गनिष्पत्तिविषया इति गाथार्थः ॥ ६५ ॥ न करोति मनसा किम्भूतः सन्- आहारसंज्ञाविप्रमुक्तस्तु नियमेन, तथा श्रोत्रेन्द्रियसंवृत्तः किमित्याह -- पृथिवीकायारम्भं क्षान्त्यादियुक्त इति गाथार्थः ॥ ६६ ॥ एवं मार्दवादियोगात् - माद्देवयुक्त आर्जवादियुक्त इति श्रुत्या पृथिवीकाये भवन्ति दश भेदाः, यतो दश क्षान्त्यादिपदानि, अप्कायादिष्वप्येवं प्रत्येकं दशैव, एते सर्व एव पिण्डितं तु शतं यतो दश पृथिव्यादय इति गाथार्थः ॥ ६७ ॥ श्रोत्रेन्द्रियेणैतल्लब्धं, शेषैरपीन्द्रियैर्यदिदं शतमेव लभ्यते ततः पञ्च शतानि पञ्चत्वादिन्द्रियाणाम्, आहारसंज्ञायोगादेतानि पञ्च, एवं शेषाभिरपि भयसंज्ञाद्याभिः पञ्च पश्चेति सहस्रद्वयं निरवशेषं यतश्चतस्रः संज्ञा इति गाथार्थः ॥ ६८ ॥ एतन्मनसा सहस्रद्वयं लब्धं वागादिनैतत्सहस्रद्वयमिति पट् सहस्राणि त्रीणि करणानीतिकृत्वा, न करोतीत्यनेन योगेनैतानि, शेषेणापि योगेनैतानि षट् पडिति एतानि सर्वाण्यष्टादश भवति, त्रयो योगाः इतिकृत्वेति गाथार्थः ॥ ६९ ॥ 'अत्र' शीलाङ्गाधिकारे इदं विज्ञेयम् 'ऐदम्पर्य' भावार्थगर्भरूपं बुद्धिमद्भिः पुरुषैः, यदुतैकमपि सुपरिशुद्धं शीलाङ्गं, यादृक् शीलाङ्गमुच्यते तादृगित्यर्थः किमित्याह – 'शेषसद्भावे' तदपरशीलाङ्गभाव एवेति गाथार्थः ॥ ७० ॥ निदर्शनमाह - एकोऽप्यात्मप्रदेशोऽत्यन्तसूक्ष्मो ऽसङ्ख्येयप्रदेश सङ्गतः - तदन्याविनाभूतो यथैव, केवलस्यासम्भवाद्, 'एतदपि शीला तथा ज्ञेयम्-अन्याविनाभूतमेव, स्वतत्त्वत्यागः 'इतरथा तु' केवलत्वे, आत्मप्रदेशत्वशीलाङ्गत्वाभाव इति गाथार्थः ॥ ७१ ॥ For Private & Personal Use Only शीलाङ्गानि ॥ १७२ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy