SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १६७ ॥ Jain Education In ततः परं 'ध' संयमरूपमिति गाथार्थः ॥ २७ ॥ 'तत्' तस्मादेतदेव 'वित्तं' धनं यदत्र - जिनभवने उपयोगमेति - गच्छति अनवरतं - सदा, 'इय' एवं चिन्ताऽप्रतिपतिता सती स्वाशयवृद्धिरुच्यते, मोक्षफलेयमिति गाथार्थः ॥ २८ ॥ व्याख्याताऽधिकृतद्वारगाथा, एष तावत्समासतो जिनभवन कारणविधिः, अत्रानन्तरकरणीयमाहणिफाइअ जयणाए जिणभवणं सुंदरं तहिं बिंबं । विहिकारिअमह विहिणा पइट्ठविजा असंभंतो ॥ ११२९ ॥ जिणबिंबकारणविही काले संपूइऊण कत्तारं । विहवोचिअमुलप्पणमणहस्स सुहेण भावेण ॥ ११३० ॥ तारिसयस्साभावे तस्सेव हिअत्थमुज्जओ णवरं । णिअमेइ बिंबमोल्लं जं उचिअं कालमासज्ज | | ११३१ ॥ निष्पाद्य 'यतनया' परिणतोदकादिग्रहणरूपया 'जिनभवनं' जिनायतनं सुन्दरं 'तत्र' भवने बिम्बं भगवतः विधिका रितं सद् अथ विधिना वक्ष्यमाणेन प्रतिष्ठापयेद् 'असम्भ्रान्तः' अनाकुलः सन्निति गाथार्थः ॥ २९॥ 'विधिकारित' मित्युक्तं | तमाह - जिनबिम्बकारण विधिरयं द्रष्टव्यः, यदुत काले शुभे सम्पूज्य कर्त्तारं वासचन्दनादिभिः विभवोचितमूल्यार्पणं सगौरवमस्य अनघस्येति - अपापस्य शुभेन 'भावेन' मनःप्रणिधानेनेति गाथार्थः ॥ ३० ॥ अपवादमाह - तादृशस्य- अनघस्य कर्त्तुरभावे तस्यैव कर्त्तर्हितार्थमुद्यतोऽनर्थपरिजिहीर्षया नवरं नियमयति सङ्ख्यादिना बिम्बमूल्यं द्रम्मादि यदुचितं कालमाश्रित्य न परं व्यंसयति नात्मानमिति गाथार्थः ॥ ३१ ॥ For Private & Personal Use Only स्वाशयः बिम्वस्थापना गा. ११२५ ३१ ॥ १६७ ॥ www.jainelibrary.org.
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy