________________
'गीतार्थों' गृहीतसूत्रार्थः ‘कृतयोगी' कृतसाधुव्यापारः 'चारित्री' शीलवान् तथा च ग्राहणाकुशलः' क्रियाकलापशिक्षणानिपुणः 'अनुवर्तकः' स्वभावानुवर्तकः स्वभावानुकूल्येन प्रतिजागरकः 'अविषादी' भावापत्सु 'द्वितीयः' अपवा| दिकः 'प्रजाजनाचार्यः' प्रव्रज्याप्रयच्छको गुरुः । इति गाथार्थः ॥३१॥ केनेति व्याख्यातम्, अधुना, केभ्य इति | व्याख्यायते-केभ्यः प्रव्रज्या दातव्या ? के पुनस्तदर्हाः? इत्येतदाह
पवजाए अरिहा आरियदेसम्मि जे समुप्पन्ना। जाइकुलेहिं विसुद्धा तह खीणप्पायकम्ममला॥३२॥ ___ 'प्रव्रज्याया अर्हा' योग्याः क ? इत्याह-'आर्यदेशे ये समुत्पन्ना' अर्द्धषविंशतिजनपदेष्वित्यर्थः १ । 'जातिकुलाभ्यां । विशिष्टाः,' मातृसमुत्था जातिः, पितृसमुत्थं कुलं २। 'तथा क्षीणप्रायकर्ममला' अल्पकर्माणः । इति गाथार्थः ॥३२॥ का तत्तो अविमलबुद्धी दुल्लहमणुअत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ अ ॥३३॥ । 'ततश्च' कर्मक्षयात् 'विमलबुद्धयः ४' । विमलबुद्धित्वादेव च 'दुर्लभं मनुजत्वं भवसमुद्रे' संसारसमुद्रे तथा 'जन्म-131 मरणनिमित्तं चपलाः सम्पदश्च' इति गाथार्थः ॥ ३३ ॥ विसया य दुक्खहेऊ संजोगे निअमओ विओगुत्ति। पइसमयमेव मरणं एत्थ विवागो अअइरुदो ३४ |
'विषयाश्च दुःखहेतवः' तथा 'संयोगे' सति 'नियमतो वियोग इति'। 'प्रतिसमयमेव मरणम्' आवीचिमाश्रित्य ला'अत्र विपाकश्चातिरौद्रः परभवे । इति गाथार्थः॥ ३४ ॥
Jain Education
a
l
For Private & Personal Use Only
| www.jainelibrary.org