SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १६३ ॥ Jain Education Int | देहेणं देहम्मि अउवघायाणुग्गहेहिं बंधाई । ण पुण अमुत्तोऽमुत्तस्स अप्पणो कुणइ किंचिदवि ॥११०३॥ जीवशरीरयोरपि भेदाभेदः, कथञ्चिद्भेदः कथञ्चिदभेद इत्यर्थः, तथोपलम्भात् कारणात्, मूर्त्तामूर्त्तत्वात् तयोः अन्यथा योगाभावात् स्पृष्ठे शरीरे प्रवेदनाच्च, न चामूर्त्तस्यैव स्पर्श इति गाथार्थः ॥ ९५ ॥ उभयकृतोभयभोगात् कारणात् 'तदभावाच्च' भोगाभावाच्च भवति ज्ञातव्यः जीवशरीरयोर्भेदाभेदः, बन्धादिविषयभावात् कारणाद्, 'इतरथा' एकान्तभेदादौ 'तदसम्भवाच्च' बन्धाद्यसम्भवाच्चेति गाथार्थः ॥ ९६ ॥ एतदेव प्रकटयन्नाह — अत्र शरीरेण कृतं कथमित्याह - प्राणव|धासेवनया हेतुभूतया यत् कर्म तत् खलु चित्रविपाकं सद्वेदयते 'भवान्तरे' अन्यजन्मान्तरे जीव इति गाथार्थः ॥ ९७ ॥ न तु तदेव शरीरं येन कृतमिति, कुत इत्याह- नरकादिषु 'तस्य' शरीरस्य तथाऽभावादिति, भिन्नकृतवेदने चाभ्युपगम्यमानेऽतिप्रसङ्गोऽनवस्थारूपः बलाद् भवतीति गाथार्थः ॥ ९८ ॥ एवं जीवेन कृतं तत्प्राधान्यक्रूरमनःप्रवृत्तेन यत् कर्म - पापादि 'तत्प्रति' तन्निमित्तं रौद्रविपाकं तीव्र वेदनाकारित्वेन वेदयति भवान्तरशरीरं तथाऽनुभवादिति गाथार्थः ॥ ९९ ॥ न तु केवलो जीवो वेदयते, 'तेन' शरीरेण विमुक्तस्य सतः वेदनाऽभावात् कारणात्, न च स एव जीवस्तच्छरीरमिति, लोकादिविरोधभावाद्, आदिशब्दात्समयग्रह इति गाथार्थः ॥ ११०० ॥ 'एवमेव' जीवशरीरयोर्भेदाभेद एव देहवधे सति उपकारे वा देहस्य पुण्यपापे भवतः, 'इतरथा' एकान्तभेदादौ 'घटादिभङ्गादिज्ञाततः' घटादिविनाशकरणोदाहरणेन नैव युज्येते पुण्यपापे इति गाथार्थः ॥ १ ॥ अभ्युपचयमाह - ' तदभेदे च 'जीवशरीराभेदे च नियमात् 'तन्नाशे' For Private & Personal Use Only जीवशरीरयोर्भेदा भेदः गा. १०९५ ११०३ ॥ १६३ ॥ www.jainelibrary.org.
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy