________________
Jain Education Inte
1
चितमिति गाथार्थः ॥ ६९ ॥ व्यतिरेकतः कपयुद्धमाह — स्थूलः - अनिपुणः न सर्वविषयः - अव्यापकः सावद्ये वस्तुनि यत्र भवति प्रतिषेधः आगमे, रागादिविकुट्टनसमर्थं न च ध्यानाद्यपि यत्र स 'तदशुद्धः' कपाशुद्ध इति गाथार्थः ॥ ७० ॥ अत्रैवोदाहरणमाह-यथा पञ्चभिः कारणैः - प्राण्यादिभिः बहुभिश्च - एकेन्द्रियादिभिरेका हिंसा, यथोक्तं- 'प्राणी प्राणि ज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ १ ॥ तथा 'अनस्थिमतां शकटभरेणैको घात' इति, तथा मृषा विसंवादे वास्तव इति, आह - "असन्तोऽपि स्वका दोषाः, पापशुद्ध्यर्थमीरिताः । न मृषायै विसं वादविरहात्तस्य कस्यचित् ॥ १ ॥" इत्यादौ विचारे, तथा ध्याने च ध्यातव्यमकारादि, यथोक्तम् - "ब्रह्मोकारोऽत्र विज्ञेयः, अकारो विष्णुरुच्यते । महेश्वरो मकारस्तु त्रयमेकत्र तत्त्वतः ॥ १ ॥” इति गाथार्थः ॥ ७१ ॥ छेदमधिकृत्याह| सइ अप्पम त्तयाए संजमजोएस विविहभेएसु । जा धम्मिअस्स वित्ती एअं बज्झं अणुट्ठाणं ॥ १०७२ ॥ एएण न वाहिज्जइ संभवइ अ तं दुर्गापि निअमेण । एअवयणेण सुद्धो जो सो छेएण सुद्धोति ॥ १०७३ ॥ जह पंचसु समिईसुं तीसु अ गुत्तीसु अप्पमतेणं । सवं चिअ कायवं जड़णा सह काइगाईवि ॥ १०७४ ॥ जे खलु पमायजणगा वसहाई तेवि वज्जणिज्जाउ । महुअरवित्तीअ तहा पालेअवो अ अप्पाणो ॥ जत्थ उपमत्तयाए संजमजोएसु विविहभेएसु । नो धम्मिअस्स वित्ती अणणुट्टाणं तयं होइ ॥ १०७६ ॥ एएणं वाहिज्जइ संभवइ अ तद्दुगं न णिअमेण । एअवयणोववेओ जो सो छेपण नो सुद्धो ॥ १०७७ ॥
१०७५ ॥
For Private & Personal Use Only
www.jainelibrary.org