SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ कालो सहाव निअई पुवकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासओ होति सम्मत्तं ॥१०४९ ॥ संवेऽवि अ कालाई इअ समुदाएण साहगा भणिआ। जुजंति अ एमेव य सम्म सवस्त कज्जस्स॥१०५०॥18) नवि कालाईहितो केवलएहिं तु जायए किंचि । इह मोग्गरंधणाइवि ता सवे समुदिया हेऊ ॥१०५१॥ एत्थंपि ता सहावो इट्टो एवं तओ ण दोसो णं।सो पुण इह विन्नेओ भवत्तं चेव चित्तं तु ॥१०५२॥ __ आह-एवं सति परित्यक्तो भवता जैनेन निजोऽत्र-अधिकारे कर्मवाद एव, कथमित्याह-भणितप्रकारात् खल्वि. त्यवधारणे स्वभाववादाभ्युपगमेन हेतुनेति गाथार्थः॥४६॥ भण्यतेऽत्र नैकान्तेनास्माकं-जैनानां कर्मवाद एवेष्टः, न च न स्वभाववाद इष्टः, श्रुतकेवलिना यतो भणितं वक्ष्यमाणमिति गाथार्थः॥४७॥ केनेत्याह-आचार्यसिद्धसेनेन सम्मत्यां भणितं वक्ष्यमाणं, सम्मत्यां वा प्रतिष्ठितयशसा तेन, तथा दुष्पमानिशादिवाकरकल्पत्वात् कारणात्तदाख्येन दिवाकरनाम्नेति गाथार्थः॥४८॥ यद्भणितं तदाह-कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारणं 'एकान्ता' एते कालादय एव कारणं विश्वस्येत्येवम्भूताः मिथ्यात्वं, त एव समासतो भवन्ति सम्यक्त्वं, सर्व एव समुदिताः सन्तः फलजनकत्वेनेति गाथार्थः॥४९॥ एतदेव स्पष्टयति-सर्वेऽपि च कालादयः-अनन्तरोपन्यस्ताः 'इय' (इति) समुदायेन इतरेतरापेक्षाः साधकाः भणिताः प्रवचनः, युज्यन्ते चैवमेव सम्यक् साधकाः सर्वस्य कार्यस्य-रन्धनादेः, अन्यथा साधकवायोगादिति गाथार्थः ॥ ५० ॥ एतदेवाह-नहि कालादिभ्यः-अनन्तरोदितेभ्यः केवलेभ्य एव जायते किश्चित् कार्य सCACCRECTOR-4 पश्चव.२७ Jan Education Internal For Private & Personal Use Only mbainelibrary.org 10
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy