________________
Jain Education
ग्रैवेयकाणि, क्रियामात्रफलमेतन्निरनुबन्धित्वात्तुच्छमिति गाथार्थः ॥ ३९ ॥ यदि नामैवं ततः किमित्याह - लिङ्गे च यथोदिते सति 'यथायोगं' यथासम्भवं भवति 'अदः' श्रुतधर्म्मः प्राणिनाम्, उपपत्तिमाह-सूत्रपौरुष्यादि 'यद्' यस्मात् ' तत्र' लिङ्गे ' नित्यकर्म्म' नित्यकरणीयं प्रज्ञप्तं वीतरागैर्भगवद्भिरिति गाथार्थः ॥ ४० ॥ निगमयन्नाह - 'एवम्' उक्तेन प्रकारेण प्राप्तोऽयं खलु श्रुतधर्म्मः न च सम्यक्त्वम्, इयता कालेन सिद्धिप्रसङ्गात्, तत् कथं ' केन प्रकारेण 'ततः ' श्रुतधम्माद्' एतत्' सम्यक्त्वं ?, कथं वा एष एव श्रुतधर्म्मः एतस्य - सम्यक्त्वस्य कालभेदेन भवतः सतो हेतुः १, नैव, तद्भावभावित्वाभावादिति गाथार्थः ॥ ४१ ॥ अत्रोत्तरमाह
भण्णइ पत्तो सो ण उ उल्लसिअं जीववीरिअं कहवि । होउल्लसिए अ तयं तंपि अपायं तओ चेव ॥१०४२॥ जह खाराईहिंतो असइंपि अपत्तवेहपरिणामो । विज्झइ तेहिंतो चि जचमणी सुज्झइ तओ उ॥ १०४३ ॥ तह सुअधम्माओच्चिय असइंपि अपत्तविरिअपरिणामो । उस तत्तो चि भवो जीवो विसुज्झइ अ ॥ १०४४ ॥
तस्सेव य (वे ) स सहावो जं तावइएसु तह अईएसु । सुअसंजोएसु तओ तहाविहं वीरिअं लहइ ॥ १०४५॥ भण्यते प्राप्तोऽसौ श्रुतधर्म्मः पुरा बहुधैव, न तूल्लसितं कर्म्मविजयाय 'जीववीर्यम्' आत्मसामर्थ्यं कथमपि, तथा
For Private & Personal Use Only
xxx
www.jainelibrary.org