SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ मात सम्यक्त्वं श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥१५५॥ पश्चादपि तस्य-हेतोरपरस्य घटने किं कारणम् ?, अथाकारणं तदपरहेतुघटनं नित्यं तद्भावाभावी, तदविशेषात् , कारणाभावे चापरहेतुघटनस्य नाहेतुः कश्चिदपर इति गाथार्थः॥३४॥ एतदेवाह-तस्यापि-हेतुघटनहेतोरेवमयोगाद्, अकारणसकारणत्वेनोक्तदोषानिवृत्त्या, उपचयमाह-कायत्ताश्च कर्मपरिणतिहेतुकाश्च सर्वसंयोगा'बाह्याभ्यन्तराः, तदपि कम्मोंत्कृष्टस्थितेरारभ्य ग्रन्धिं यावत् कर्मग्रन्थिमनन्तशः-अनन्तां वारां प्राप्तम् , आगमोऽयमिति गाथार्थः॥ ३५ ॥ न चैतअदत इति-जातावेकवचनं न चैतद्देदेभ्यः-उत्कृष्टस्थितिग्रन्थ्यपान्तरालवर्तिभ्यः तदन्यत्कर्म, ततश्चैतदन्तर्गतेनैवानेन भाव्यम्, एतच्च अत्र व्यतिकरे चरितार्थ-निष्ठितप्रयोजनं इत्यर्थः । कुत इत्याह-सकृद्धावाद् अनादिमता कालेन बहुधाsप्राप्ते, एवं सति सम्यक्त्वं कथं कालभेदेन-अतीतादिना ?, उक्तवत्तत्त्वतो हेत्वविशेषादिति गाथार्थः ॥ ३६॥ अत्रोत्तरमाह-किमन्येन हेतुनाऽत्र ?, तत एव-श्रुतधर्मात् प्राय 'इदं' सम्यक्त्वं भवति, औपशमिकव्यवच्छेदार्थ प्रायोग्रहणं, यच्च कालभेदेनैतदतीतादिना भवति 'अत्रापि' कालभेदेन भवने 'तक एव' श्रुतधर्म एव हेतुः, अत्राह-नन्वसौ-श्रुतधर्मःप्राप्तः पुरा 'बहुधा' अनेकश इति गाथार्थः॥ ३७॥ एतदेव स्पष्टयन्नाह-सर्वजीवानामेव सांव्यवहारिकराश्यन्त. गैतानां 'यद्' यस्मात् 'सूत्रे' प्रज्ञापनादौ ग्रैवेयकेषु नवस्वप्युपपातो भणितः, तन्मुक्तशरीराणामानन्त्याभिधानात्, न चासो-उपपातः एतल्लिङ्गं जिनप्रणीतं मुक्त्वा, यतो भणितमागमज्ञैः पूर्वसूरिभिरिति गाथार्थः ॥ ३८ ॥ किं तदित्याहये 'ब्यापन्नदर्शना' निवादयः 'लिङ्गग्रहणं कुर्वन्ति' प्रतिदिन रजोहरणादिधारणमनुतिष्ठन्ति, न क्रीडया, अपि तु श्रामण्ये'। श्रमणभावविषयं (ये) स्वबुद्ध्या, तेषामपि च अपिशब्दादनादिमिथ्यादृष्टीनामपि च उपपात 'उत्कृष्टः' सर्वोत्तमो यावद् | 4-24 r. ॥१५५॥ Jain Education inte For Private & Personal Use Only T ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy