________________
शब्दोऽवधारणे, तत एव 'दोषा' रागादयो 'हीयन्ते' त्यज्यन्ते क्षीयन्ते वा। ततो 'वर्द्धते चरणं' चारित्रं, 'इय' एवं 'अभ्यासातिशयात्' अभ्यासातिशयेन तत्रान्यत्र वा जन्मनि कम्मक्षयभावात् 'शिष्याणां भवति परमपदं' मोक्षाख्यम् । इति गाथार्थः ॥२४॥ एआरिसा इहं खलु अण्णेसिं सासणम्मि अणुरायो।बीअंसवणपवित्ती संताणे तेसु वि जहत्तं ॥२५॥
तान ज्ञानादियुतान् दृष्ट्वा 'ईदृशा' ज्ञानादियुक्ता 'इहं खलु' इहैव जिनशासने इति, 'अन्येषां' गुणपक्षपातिनां 'शासने अनुरागो' भवति, भावत एव शोभनं भव्यमिदं शासनमिति 'बीज' इत्येतदेव सम्यक्त्वापवर्गबीजं, केषाञ्चित्त्वनुरागातिशयात् 'श्रवणप्रवृत्तिः' अहो शोभनमेतदिति शृण्वन्येवापरेऽङ्गीकुर्वन्ति च 'सन्ताने' इत्येवं कुशलसन्तानप्रवृत्तिः 'तेषामपि' अन्येषां सन्तानिनां 'यथोक्तं'-विज्ञानादिगुणलाभतः परमपदमेव । इति गाथार्थः ॥ २५ ॥
इय कुसलपक्खहेऊ सपरुवयारम्मि निच्चमुजुत्तो। सफलीकयगुरुसदो साहेइ जहिच्छिअं कजं ॥२६॥
'इय' एवं 'कुशलपक्षहेतुः' पुण्यपक्षकारणं 'स्वपरोपकारे नित्योद्युक्तो नित्योद्यतः 'सफलीकृतगुरुशब्दो' गुणगुरुत्वेन 'साधयति, यथेप्सितं कार्य' परमपदम् । इति गाथार्थः ॥ २६ ॥ विपर्ययमाह
विहिणाणुवत्तिआ पुण कहिंचि सेवंति जइवि पडिसिद्धं । आणाकारित्ति गुरु न दोसवं होइ सो तहवि ॥ २७ ॥
Jain Educationa l
For Private & Personal use only
www.jainelibrary.org