SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ एत्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाउ | भासंत जिट्ठगस्स उ काय होइ किइकम्मं ॥ १०९७ ॥ व्याख्यानसमाप्तौ सत्यां किमित्याह-योगं कृत्वा कायिकादीनाम्, आदिशब्दाद् गुरुविश्रामणादिपरिग्रहः, वन्दन्ते ततो ज्येष्ठ-प्रत्युच्चारकं श्रवणाय, अन्ये पूर्वमेव भणन्ति यदुतादावेव ज्येष्ठं वन्दंत इति गाथार्थः ॥ ९॥ चोदयति कश्चिद्॥ १५२ ॥ यदि तु 'ज्येष्ठः ' पर्यायवृद्धः कथञ्चित् सूत्रार्थधारणाविकलो जडतया कर्म्मदोषात् ततश्च व्याख्यानलब्धिहीनोऽसौ वर्त्तते एवं च निरर्थकं वन्दनं तस्मिन्निति गाथार्थः ॥ १० ॥ अथ वयःपर्यायाभ्यां लघुरपि कश्चिद् भाषक इह ज्येष्ठो गृह्यते रत्नाधिकवन्दने पुनस्तस्यापि लघोः आशातना भदन्त ! भवतीति गाथार्थः ॥ ११ ॥ अत्राह यद्यपि 'वय आदिभिः' वयसा पर्यायेण च लघुकः सन् ' सूत्रार्थधारणापटुः ' दक्षः व्याख्यानलब्धिमान् यः कश्चित् स एवेह प्रक्रमे गृह्यते ज्येष्ठः, न तु वयसा पर्यायेणै (ण) वेति गाथार्थः ॥ १२ ॥ आशातनापि नैवं भवति प्रतीत्य जिनवचन भाषकं, यस्माद् वन्दनकं तद्रत्नाधिकस्तेन गुणेनापि - भाषणलक्षणेन स एवेति गाथार्थः ॥ १३ ॥ एतदेव भावयतिन वयोsत्र- प्रक्रमे सामान्यगुणचिन्तायां वा प्रमाणं, न च ' पर्यायोऽपि' प्रत्रज्यालक्षणः निश्चयनयेन व्यवहारतस्तु युज्यते वयः पर्यायश्च, उभयनयमतं पुनः प्रमाणं सर्वत्रैवेति गाथार्थः ॥ १४ ॥ यतः - निश्चयतो दुर्विज्ञेयमेतत् - को भावे कस्मिन् शुभाशुभतरादौ वर्त्तते श्रमणः, ततश्चाकर्त्तव्यमेवैतत्प्राप्नोति, व्यवहारतस्तु क्रियत एवैतद् यः पूर्वम्-आदौ स्थितश्चारित्रे, आदौ प्रत्रजित इति गाथार्थः ॥ १५ ॥ युक्तं चैतदित्याह-व्यवहारोऽपि बलवान् वत्तते, यत् छद्मस्थमपि सन्तं Jain Education Inter 9 For Private & Personal Use Only भाषकस्य ज्येष्ठता विन्द्यता च गा. १००९-१७ ॥ १५२ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy