________________
Jain Education Inter
| जो हेउवायपक्खम्मि हेउओ आगमे अ आगमिओ। सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो ॥ ९९३ ॥ आणागिज्झो अत्थो आणाए चैव सो कहेयवो । दिट्ठतिअ दिट्टंता कहणविहि विराहणा इहरा ॥ ९९४ ॥
यस्मात् द्वयोरपि 'अत्र' प्रवचने भणितं प्रज्ञापककथनभावयोः, पदार्थयोरित्यर्थः, 'लक्षणं' स्वरूपं, कैरित्याह- 'अनघमतैः(तिभिः)’अवदातबुद्धिभिः पूर्वाचार्यैः, कुत इत्याह-आगमात् नतु स्वमनीषिकयैवेति गाथार्थः॥ ९२ ॥ किंभूतं तदित्याह - यो 'हेतुवादपक्षे' युक्तिगम्ये वस्तुनि 'हेतुको' हेतुना चरति, आगमे चागमिको, न तत्रापि मतिमोहनीं युक्तिमाह, 'स' एवंभूतः स्वसमयप्रज्ञापको भगवदनुमतः, सिद्धान्तविराधकोऽन्यः, तल्लाघवापादनादिति गाथार्थः ॥ ९३ ॥ तथा-- आज्ञाग्राह्योऽर्थः - आगमग्राह्यः आज्ञयैवासौ कथयितव्यः आगमेनैवेत्यर्थः, दाष्टन्तिको 'दृष्टान्ताद् ' दृष्टान्तेन, कथनविधिरेष सूत्रार्थे, विराधनेतरथा कथनस्येति गाथार्थः ॥ ९४ ॥
तो आगमहेउगयं सुअम्मि तह गोरखं जणंतेणं । उत्तमनिदंसणजुअं विचित्तणयगब्भसारं च ॥ ९९५ ॥ भगवंते तप्पच्चयकारि (य) गंभीरसारभणिईहिं । संवेगकरं निअमा वक्खाणं होइ कायव्वं ॥ ९९६ ॥ होंति उ विवज्जयम्मी दोसा एत्थं विवज्जयादेव । ता उवसंपन्नाणं एवं चिअ बुद्धिमं कुज्जा ॥ ९९७ ॥
'तत्' तस्मादागमहेतुगतं यथाविषयमुभयोपयोगेन व्याख्यानं कर्त्तव्यमिति योगः, श्रुते तथा गौरवं जनयता, न यथा तथाभिधानं, न हेयबुद्धिं प्रकुर्वता, तथा उत्तमनिदर्शनयुतं - अहीनोदाहरणवत्, तथा 'विचित्रनयगर्भसारं च' निश्च
For Private & Personal Use Only
www.jainelibrary.org