SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥ १४९ ॥ Jain Education Int जीतं वर्त्तते, सुयोगतः प्रतिपत्तिशुद्धौ सत्याम्, 'अथ ' अनन्तरं निवेदनं गुरवे विधिना प्रवचनोक्तेन, उपसम्पदित्यर्थः, तत्र श्रुतस्कन्धादौ नियमः - एतावन्तं कालं यावदित्येवमर्हदादिसाक्षिकी स्थापना, कायोत्सर्गपूर्विकेत्यन्ये, उभयनियमश्चायम् ' आभाव्यानुपालना चैव शिष्येण नालबद्धवल्लिव्यतिरिक्तं देयं, गुरुणाऽपि स सम्यक् पालनीय इति गाथार्थः ॥ ८९ ॥ इह प्रयोजनमाह - अस्वामित्वं भवति, निःसङ्गतेत्यर्थः तथा पूजा गुरोः कृता भवति, ' इतरापेक्षया' अनालबद्धवल्लिनिवेदनेन इतरगुर्वपेक्षयेति भावः, तथा 'जीत' मिति कल्पोऽयमेव, एवं भगवता दृष्ट इति 'शुभभावादित्यनेन प्रकारेण शुभाशयोपपत्तेः परिणमति श्रुतं यथार्थतया चारित्रशुद्धिहेतुत्वेन शिष्यस्य नान्यथेत्याभाव्यदानं शिष्येण कर्त्तव्यं, ग्रहणमत एव तस्य गुरुणापि कर्त्तव्यं, तदनुग्रहधिया, न लोभादिति गाथार्थः ॥ ९० ॥ अथ व्याख्यानयितव्यं किमपि श्रुतं कथमित्याह अह वक्खाणेअवं जहा जहा तस्स अवगमो होइ । आगमिअमागमेणं जुत्तीगम्मं तु जुत्तीए ॥ ९९९ ॥ यथा यथा श्रोतुरवगमो भवति, परिज्ञेत्यर्थः, तत्रापि स्थितिमाह-आगमिकं वस्तु आगमेन, यथा 'स्वर्गेऽप्सरसः, उत्तराः कुरव' इत्यादि, युक्तिगम्यं पुनर्युक्त्यैव, यथा देहमात्रपरिणाम्यात्मेत्यादीति गाथार्थः ॥ ९१ ॥ किमित्येतदेवमित्याहजम्हा उ दोहवि इहं भणिअं पन्नवगकहणभावाणं । लक्खणमणघमईहिं पुवायरिएहिं आगमओ ॥ ९९२ ॥ For Private & Personal Use Only कथन विधिः ॥ १४९ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy