________________
श्रीपञ्चव. अनुयोगानुज्ञा ४
॥ १४८ ॥
Jain Education Internat
कर्मदोषेण हेतुनाऽहितमेव विज्ञेयं व्याख्यानं, दोषोदये औषधसमानं, विपर्ययकारीति गाथार्थः ॥ ८० ॥ कथमित्याह' तयोः ' अतिपरिणामकापरिणामकयोः ' तत एव ' व्याख्यानात् जायते यतोऽनर्थः, विपर्यययोगात्, ततो न 'तद्' व्याख्यानं मतिमान् गुरुस्तयोरेव - अतिपरिणामकापरिणामकयोर्हिताय अनर्थप्रतिघातेन कुर्यात्, नेति वर्त्तते, पूज्याः ' पूर्वगुरवः तथा चाहुरिति गाथार्थः ॥ ८१ ॥ आमे घटे निषिक्तं सत् यथा जलं तं घटमानं विनाशयति, इय' एवं सिद्धान्तरहस्यमप्यल्पाधारं प्राणिनं विनाशयतीति गाथार्थः ॥ ८२ ॥ न परम्परयापि ' ततः ' अतिपरि| णामकादेः मिथ्याभिनिवेशभावितमतेः सकाशाद् अन्येषामपि श्रोतॄणां जायते पुरुषार्थः शुद्धरूप एव, [अ] मिथ्याप्ररूप| णादिति गाथार्थः ॥ ८३ ॥ एतदेवाह - अपिच ' तक एव ' अतिपरिणामादिक एव प्रायो मिथ्याभिनिवेशभावितमतेः सकाशात्, तस्य च भावः तद्भावो - मिथ्याभिनिवेशभावोऽनादिमानितिकृत्वा जीवानां भावनासहकारिविशेषाद्, 'इय' एवं मत्वा ' तदर्थ ' तद्धितायैव योग्येभ्यो विनेयेभ्यः कुर्याद् व्याख्यानं विधिनेति गाथार्थः ॥ ८४ ॥ उवसंपण्णाण जहाविहाणओ एव गुणजुआणंपि । सुत्तत्थाइकमेणं सुविणिच्छिअमप्पणा सम्मं ॥ ९८५ ॥ उपसम्पन्नानां सतां : यथाविधानतः ' सूत्रनीत्या एवं गुणयुक्तानामपि, नान्यथा, तदपरिणत्यादिदोषात् कथं कर्त्तव्यमित्याह- सूत्रार्थादिक्रमेण यथाबोधं सुविनिश्चितमात्मना सम्यग् न शुकप्रलापप्रायमिति गाथार्थः ॥ ८५ ॥ तद्भावनायैवाह| उवसंपयाय कप्पो सुगुरुसगासे गहि असुत्तत्थो । तदहिगगहणसमत्थोऽणुन्नाओ तेण संपजे ॥ ९८६ ॥
For Private & Personal Use Only
उपसंपदादिविधिः
॥ १४८ ॥
www.jainelibrary.org