________________
Jain Education
मिति गाथार्थः ॥ ६९ ॥ परमश्चैषः- जिनवचनप्रयोगः हेतुः केवलज्ञानस्य, अवन्ध्य इत्यर्थः कुत इत्याह- अन्यप्राणिनां मोहापनयनात्, परार्थकरणात् तथा संवेगातिशयभावेन उभयोरपीति गाथार्थः ॥ ७० ॥
एवं उबवूहे अणुओगविसज्जणट्ट उस्सग्गो । कालस्स पडिकमणं पवेअणं संघविहिदाणं ॥ ९७१ ॥ एवं तमाचार्यमनुयोगविसर्जनार्थमुत्सर्गः क्रियते, कालस्य प्रतिक्रमणं तदन्वेव, प्रवेदनं निरुद्धस्य, सङ्घविधिदानं यथाशक्ति नियोगत इति गाथार्थः ॥ ७१ ॥
| पच्छा य सोऽणुओगी पवयणकज्जम्मि निच्चमुज्जुत्तो । जोगाणं वक्खाणं करिज सिद्धंतविहिणा उ ॥ ९७२ ॥ मज्झत्था बुद्धिजुआ धम्मत्थी ओघओ इमे जोगा ।
तह चैव पयत्थाई (य पत्ताई ) सुत्तविसेसं समासज्ज ॥ ९७३ ॥
3
पञ्चाच्चासावनुयोगी - आचार्यः प्रवचनकार्ये नित्यमुद्युक्तः सन् योग्येभ्यो विनेयेभ्यो व्याख्यानं कुर्यादित्याज्ञा सिद्धान्तविधिनैवेति गाथार्थः ॥ ७२ ॥ योग्यानाह - ' मध्यस्थाः ' सर्वत्रारक्तद्विष्टा: ' बुद्धियुक्ताः प्राज्ञाः ' धम्र्म्मार्थिनः परलोक भीरवः ' ओघतः ' सामान्येनैते योग्याः सिद्धान्तश्रवणस्य तथैव प्राप्तादयो योग्याः, आदिशब्दात्परिणामका दिपरिग्रहः, ' सूत्रविशेषम्' अङ्गचूडादिरूपं समाश्रित्येति गाथार्थः ॥ ७३ ॥ मध्यस्थादिपदानां गुणानाह - मज्झत्थाऽसग्गाहं एत्तोच्चि कत्थई न कुवंति । सुद्धासया य पायं होंति तहाऽऽसन्नभव्वा य ॥ ९७४ ॥
For Private & Personal Use Only
www.jainelibrary.org