SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter नोकेन, ततः किमित्याह - स्थित एवोर्ध्वस्थानेन 'नमस्कारं पञ्चमङ्गलकमाकर्षयति-३पठति, नन्दीं च सम्पूर्णग्रन्थपद्धतिमिति गाथार्थः ॥ ५६ ॥ ' इतरोऽपि ' शिष्यः स्थितः सन्नूर्ध्वस्थानेन शृणोति, मुखवस्त्रिकया विधिगृहीतया स्थगित मुखकमलः सन्निति, स एव विशेष्यते-' संविग्नो' मोक्षार्थी उपयुक्तस्तत्रैकाग्रतया, अनेन प्रकारेणात्यन्तं 'शुद्धपरिणामः शुद्धाशय इति गाथार्थः ॥ ५७ ॥ तत ' आकृष्य ' पठित्वा नन्दीं भणति ' गुरुः ' आचार्यः - अहमस्य साधोरुपस्थितस्यानुयोगम् — उक्तलक्षणमनुजानामि क्षमाश्रमणानां प्राक्तनऋषीणां हस्तेन, न स्वमनीषिकयेति गाथार्थः ॥ ५८ ॥ कथमित्याह - ' द्रव्यगुणपर्यायैः ' व्याख्याङ्गरूपैरेषोऽनुज्ञात इति, अत्रान्तरे वन्दित्वा शिष्यः सन्दिशत यूयं किं भणामीत्यादि वचनजातं यथैव सामायिके तथैव द्रष्टव्यमिति गाथार्थः ॥ ५९ यदत्र नानात्वं तदभिधातुमाह - नवरमत्र सम्यग् धारय, आचारासेवनेनेत्यर्थः, अन्येभ्यस्तथा प्रवेदय सम्यगेवेति भणति, कदे - त्याह- इच्छाम्यनुशास्तौ शिष्येण कृतायां सत्यामाचार्य इति गाथार्थः ॥ ६० ॥ त्रिप्रदक्षिणीकृते सति शिष्येण तत उपविशति गुरुः, अत्रान्तरेऽनुज्ञाकायोत्सर्गः, च कायोत्सर्गे तदनु सनिष्पद्ये गुरौ त्रिप्रदक्षिणं वन्दनं भावसारं शिष्यस्य व्यापारोऽयमिति गाथार्थः ॥ ६१ ॥ उपविशति गुरुसमीपे तन्निषद्यायामेव दक्षिणपार्श्वे शिष्यः, 'सः' गुरुः कथयति तस्य त्रीन् वारान् किमित्याह - आचार्यपारम्पर्येणागतानि पुस्तकादिष्वलिखितानि तत्र मन्त्रपदानि विधिना | सर्वार्थसाधकानीति गाथार्थः ॥ ६२ ॥ तथा — ददाति त्रीन् मुष्टीनाचार्योऽक्षाणां - चन्दनकानां सुरभिगन्धसहितानां वर्द्धमानान् प्रति मुष्टिं सोऽपि च शिष्यः उपयुक्तः सन् गृह्णाति विधिनेति गाथार्थः ॥ ६३ ॥ एवं व्याख्याङ्गरूपानक्षान् For Private & Personal Use Only +++ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy