________________
कान्त्यादिगुणप्रकर्षम् 'उपैति' 'सोहम्मणगुणेण' रत्नशोधकप्रभावेण वैकटिकप्रभावेणेत्यर्थः। एवं सुशिष्या अपि गुरुप्रभा-16) वेण । इति गाथार्थः ॥ १७॥ किञ्च
एत्थ य पमायखलिया पुव्वब्भासेण कस्स व न हुंति।जोते वणेइ सम्मं गुरुत्तणं तस्स सफलंति॥१८॥ ___'अत्र च' प्रव्रज्याविधाने 'प्रमादस्खलितानि' इति प्रमादात् सकाशाद्दुश्चेष्टितानि 'पूर्वाभ्यासेन कस्य वा न भवन्ति', अनादिभवाभ्यस्तो हि प्रमादः न झटित्येव त्यक्तुं पार्यते । यस्तानि स्खलितानि 'अपनयति सम्यक् प्रवचनोक्तेन विधिना 'गुरुत्वं तस्य सफलं' गुणगुरुत्वेन । इति गाथार्थः॥ १८ ॥ एतदेव लौकिकोदाहरणेन स्पष्टयति
कोणाम सारहीणं स होज जो भद्दवाइणो दमए। दुढे विअजो आसे दमेइतं आसियं विति ॥१९॥ ___'को नाम सारथीनां स भवेत् यो भद्रवाजिनः-' शोभनाश्वान् ‘दमयेत्', न कश्चिदसौ असारथिरेवेत्यर्थः । दुष्टा-13 तु योऽश्वान् दमयति-' शोभनान् करोति, "तं सारथिं त्रुवते' लौकिकाः। पाठान्तरे वा, 'तमाश्विकं ब्रुवते'। इति
॥ १९ ॥ शिष्याननुपालनेन गुरोर्दोषमाहजो आयरेण पढम पव्वावेऊण नाणुपालेइ । सेहे सुत्तविहीए सो पवयणपञ्चणीओ त्ति ॥२०॥ ___'यो' गुरुः 'आदरेण'-बहुमानेन 'प्रथम' प्रव्रज्यां ग्राहयित्वा पश्चात् 'नानुपालयति शिष्यकान् सूत्रविधिना', स * किमित्याह-'स प्रवचनप्रत्यनीका-शासनप्रत्यनीकः। इति गाथार्थः॥२०॥ एतदेवाह
Jain Education Interna
For Private & Personal Use Only
w
ww.jainelibrary.org