________________
Jain Education Inter
अविच्छिओ अ समए तह २ सिद्धंतपडिणीओ ॥ ९४७ ॥
|सवण्णूहिं पणीयं सो उत्तममइसएण गंभीरं । तुच्छकहणाए हिट्टा सेसाणवि कुणइ सिद्धतं ॥ ९४८ ॥ अविणिच्छिओ ण सम्मं उस्सग्गववायजाणओ होइ । अविसयपओगओ सिं सो सपरविणासओ निअमा ॥ ९४९ ॥ ता तस्सेव हिअट्ठा तस्सीसाणमणुमोअगाणं च । तह अप्पणो अधीरो जोगस्सऽणुजाणई एवं ॥ ९५० ॥
कालोचितसूत्रार्थेऽस्मिन् विषये तस्मात् 'सुविनिश्चितस्य' ज्ञाततत्त्वस्यानुयोगः - उत्तलक्षणः 'नियमाद्' एकान्तेन अनुज्ञातव्यो गुरुणा, न श्रवणत एव - श्रवणमात्रेणैव, कथमित्याह-यतो भणितं सम्मत्यां सिद्धसेनाचार्येणेति गाथार्थः ॥ ४६ ॥ यथा यथा बहुश्रुतः श्रवणमात्रेण सम्मतश्च तथाविधलोकस्य 'शिष्यगणसम्परिवृतश्च' किमित्याहबहुमूढपरिवारश्च अमूढानां तथाविधापरिग्रहणाद्, 'अविनिश्चितश्च' अज्ञाततत्त्वश्च 'समये' सिद्धान्ते तथा तथाऽसौ वस्तुस्थित्या 'सिद्धान्तप्रत्यनीकः' सिद्धान्तविनाशकः, तल्लाघवापादनादिति गाथार्थः ॥ ४७ ॥ एतदेव भावयति-सर्वज्ञैः प्रणीतं 'सः' अविनिश्चितः 'उत्तमं' प्रधानमतिशयेन 'गम्भीरं' भावार्थसारं 'तुच्छकथनया' अपरिणतदेशनयाऽ
For Private & Personal Use Only
www.jainelibrary.org