________________
भवत्यवज्ञेति, कथं क्वेत्यत्राह-प्रवचनधरोऽयमितिकृत्वा 'तस्मिन् 'प्रवचने, 'इय' एवं प्रवचनखिसा इह ज्ञेया, अहो ७ असारमेतद् यदयमेतदभिज्ञः सन्नेवमाहेति गाथार्थः ॥ ३९ ॥ द्वारम् ॥
सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । अहिआहिअसंपत्तिं संसारुच्छेअणिं परमं ?॥९४०॥ है
अप्पत्तणओ पायं हेआइविवेगविरहओ वावि। नहु अन्नओवि सोतं कुणइ अमिच्छाभिमाणाओ॥९४१॥ है तो तेऽवि तहाभूआ कालेणवि होंति नियमओ चेव।सेसाणवि गुणहाणी इअसंताणेण विन्नेआ ॥९४२॥ ___ 'शिष्याणा'मिति शिष्येषु करोति कथमसौ तथाविधः अज्ञः सन् 'हन्दी' त्युपप्रदर्शने ज्ञानादीनां गुणानां-ज्ञानादिगुणानामधिकाधिकसंप्राप्ति, वृद्धिमित्यर्थः, किम्भूतामित्याह-संसारोच्छेदिनी सम्प्राप्तिं 'परमां' प्रधानामिति गाथार्थः॥४०॥
तथा-'अल्पत्वात्' तुच्छत्वात् कारणात् 'प्रायो' बाहुल्येन, न हि तुच्छोऽसतीं गुणसम्पदमारोपयति, तथा हेयादिविवेकविरदहतो वाऽपि, हेयोपादेयपरिज्ञानाभावत इत्यर्थः, न ह्यन्यतोऽपि-बहुश्रुतादसौऽज्ञस्ता प्राप्तिं करोति तेषु, कुत इत्याह
'मिथ्याभिमानाद्' अहमप्याचार्य एव कथं मच्छिष्या अन्यसमीपे शृण्वन्तीत्येवंरूपादिति गाथार्थः ॥ ४१ ॥ ततस्तेऽपिशिष्याः तथाभूता-मूर्खा एव कालेन बहुनापि भवन्ति नियमत एव, विशिष्टसम्पर्काभावात् , शेषाणामपि-अगीतार्थशिष्यसत्त्वानां गुणहानिः 'इय' एवं 'सन्तानेन' प्रवाहेन विज्ञेयेति गाथार्थः ॥ ४२ ॥ द्वारम् ॥
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org